________________
PR
त्रिषष्टिशलाकापुरुषचरिते ॥३६७॥
अष्टमं पर्व द्वादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तत्पार्श्वे प्रावजद्रामस्तपस्तीव्र चकार च । तुङ्गिकाशिखरे गत्वा सिद्धार्थोऽस्थाच्च रक्षकः ।। ३७ ।। मासपारणकेऽन्येधुर्बलः क्वापि पुरे विशन् । कयापि सार्भया पौर्या कूपकंठस्थयक्ष्यत ।। ३८ ॥ रामस्य रुपातिशयालोकनव्यग्रचित्तया । कुम्भस्थाने पुत्रकंठे तया रज्जुरबध्यत ।। ३९ ॥ कूपे तं क्षेप्तुमारेभे सा यावत्तावदेक्ष्यत । बलेन चिन्तितं चेदं धिङ्मे रुपमनर्थकृत् ।। ४० ॥ नातः परं पुरग्रामादिषु वेक्ष्यामि किं त्वहम् । वने काष्ठादिहारिभ्यः पारयिष्यामि भिक्षया ।। ४१ ॥ तां नारी बोधयित्वाथ तदेव हि वनं बलः । जगाम तेपे च तपो दुस्तपं मासिकादिकम् ।। ४२ ॥ आनीतं भक्तपानादि तृणकाष्ठादिहारिभिः । दत्तं च तैः प्रासुकं च गृहित्वा पारयन्मुनिः ।। ४३ ।। काष्ठादिहारकास्ते च गत्वा चख्युः स्वभूभुजम् । देवरुपः पुमान् कोऽपि चरन्नस्ति वने तपः ॥४४ ।। इत्याशशंकिरे ते च किमस्मद्राज्यकांक्षया । करोति तप ईक्षं मंत्रं वा साधयत्यसौ ॥ ४५ ॥ इमं हन्मस्ततो गत्वेत्यालोच्य युगपच्च ते । ईयुः सर्वाभिसारेण मुने रामस्य सन्निधौ ।। ४६ ।। ततश्च देवः सिद्धार्थस्तस्य सन्निहितः सदा । विचक्रेऽनेकशः सिंहाञ्जगतोऽपि भयंकरान् ।। ४७ ।। राजानश्चकितास्ते च नमस्कृत्य बलं ययुः । नरसिंह इति ख्यातो बलभद्रस्तदाद्यभूत् ॥ ४८ ।। वने तपस्यतस्तस्य धर्मदेशनयाग्रेया । वासिता व्याघ्रसिंहाद्या बहवः प्रशमं ययुः ॥ ४९ ॥ १ अर्भेण बालकेन सहितया । २ अग्रया श्रेष्ठ्या ।
ASHASHRSHASHRSHASHRS
बलदेवमुनेः साधना।
॥३६७ ॥