________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६५॥
| अष्टमं पर्व द्वादशः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
स्थानेऽसि रुषितो भ्रातस्तथाप्युत्तिष्ठ संप्रति । गच्छत्यस्तं रविः स्वप्नकालो नैष महात्मनाम् ॥ ११ ॥ एवं च प्रलपन् रामस्तामतीयाय यामिनीम् । उत्तिष्ठोत्तिष्ठ हे भ्रातः प्रातरप्येवमब्रवीत् ।। १२ ।। अनुत्तिष्ठन्तमुत्थाय तमथ स्नेहमोहितः । रामः स्कन्धे समारोप्याभ्राम्यदिगरिवनादिषु ॥ १३ ॥ कृष्णकायं वहन्नर्चन् पुष्पाद्यैरन्वहं बलः । षण्मासानतिचक्राम भ्रातृस्नेहविमोहितः ।। १४ ।। तत्रैव पर्यटत्येवं वर्षाकालः समाययौ । सिद्धार्थः सोऽमरीभूतो ददर्शावधिना च तम् ।। १५ ॥ सोऽचिन्तयच्च यदहो भ्राता मे भ्रातृवत्सलः । मृतं कृष्णं वहन्नस्ति तदेनं बोधयाम्यहम् ।। १६ ।। मामेषोऽर्थितपूर्वी यन्मां त्वं विपदि बोधयेः । ध्यात्वेत्यनेरुत्तरन्तं चक्रे सोऽश्ममयं रथम् ।। १७ ।। उत्तीर्य विषमाच्छैलात् सोऽभज्यत रथः समे । कुटुंबिरुपस्तं देवः सन्धातुमुपचक्रमे ।। १८ ॥ बलस्तमूचे किं मुग्ध रथं सन्धातुमिच्छसि । उत्तीर्य विषमादद्रेर्यः समे खंडशोऽभवत् ॥ १९ ॥ देवोऽप्यूचे यत्सहस्रेष्वहतो यो युधं विना । मृतो जीवेद्यदा ह्येष स्यात्सज्जो मे रथस्तदा ॥२० ।। आरोपयितुमारेमे देवोऽथाश्मनि पद्मिनी । बलोऽप्युवाच किं ग्राव्णि प्ररोहत्यब्जिनीवनम् ॥ २१ ॥ प्रत्युवाचामरोऽप्येवमयं तव यदानुजः । जीविष्यति सरोजिन्यस्तदारोक्ष्यन्त्यमूरपि ।। २२ ।। किञ्चिदग्रे पुनर्भूत्वासिञ्चद्दग्धद्रुमं सुरः । बलोऽप्यूचे दग्धतरुः किं सिक्तोऽपि प्ररोहति ।। २३ ।। १ अर्थितः पूर्व येन सः । २ समानभूमिमागे । ३ तं रथम् ।
| देवकृतो बलरामप्रतिबोधः ।
॥३६५ ॥