________________
द्वादशः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते ॥३६४॥
अष्टमं पर्व द्वादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
बलरामविलापः।
पद्मपत्रपुटेनाम्भो रामोऽथादाय सत्वरः । स्खल्यमानोऽपशकुनैः कृष्णाभ्यर्णमुपाययौ ।। १ ।। सुप्तोऽसौ सुखमस्तीति बुद्ध्या तस्थौ क्षणं बलः । दृष्ट्वा च मक्षिकाः कृष्णाः कृष्णास्याद्वस्त्रमाक्षिपत् ।।२ ॥ ततोऽज्ञासीन्मृतं बन्धुं बलः सद्योऽथ मूर्छया । पपात जगतीपृष्ठे कृन्तमूल इव द्रुमः ॥ ३ ॥ कथंचिल्लब्धसंज्ञः सन् सिंहनादं बलोऽकरोत् । वित्रेसुः श्वापदास्तेन चकंपे चाखिलं वनम् ।।४ ॥ इत्युवाच च येनेह सुखसुप्तो ममानुजः । विश्वकवीरः पापेन निजघ्ने स्वं स शंसतु ।। ५ ।। स मे समक्षीभवतु सत्यं हि सुभटो यदि । सुप्तप्रमत्तभ्रूणर्षिस्त्रीषु हि प्रहरेत् कः ॥ ६ ॥ इत्युच्चैःशब्दमाक्रोशन् रामो बभ्राम तद्वनम् । भूयः कृष्णमुपेयाय तमालिंग्य रुरोद च ।। ७ ।। हा भ्रातरवनीवीर हा मदुत्संगलालित । हा कनिष्ठगुणज्येष्ठ विश्वश्रेष्ठ क्व तिष्ठसि ॥ ८ ॥ विना भवन्तं न स्थातुमीशोऽस्मीति पुराऽवदः । वचोऽपि नाधुना दत्से क्व सा प्रीतिर्जनार्दन ॥९॥ नापराधं स्मरामि स्वं रुषितश्च निरीक्ष्यसे । किं वा यो मे विलम्बोऽभूत् स ते रोषस्य कारणम् ।।१०।।
॥३६४ ॥