________________
त्रिषष्टिशलाकापुरुषचरिते IR७८॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
चिरं चिक्रीडतुर्वीरावक्षैरिव शिलीमुखैः । कर्णार्जुनौ वीक्ष्यमाणो देवैरपि कुतूहलात् ।।३३३ ॥ अनेकशो भग्नरथः क्षीणान्यस्त्रोऽसिमात्रभृत् । कर्णः किरीटिना जघ्ने कथंचिद्वीरकुज्जरः ।। ३३४ ।। सिंहनादं व्यधाभीमः शंखं दध्मौ च फाल्गुनः । जगर्जुः पार्थसैन्याश्च सवैपि जितकासिनः ।। ३३५ ।। दुर्योधनोऽथ क्रोधान्धो महासिन्धुरसेनया । भीमसेनं हन्तुमना मानी द्रुतमधावत ।। ३३६ ।। रथं रथेनाश्वमश्वेनेभं चेभेन मारुतिः । आस्फाल्यास्फाल्य निःशेषीचक्रे दौर्योधनं बलम् ।।३३७ ।। तैरेवं युध्यमानस्य भुञ्जानस्येव मोदकैः । दोक्ष्मतो भीमसेनस्य न हि श्रद्धाप्यपूर्यत ।। ३३८ ।। स्वयं दुर्योधनो वीरो निजानाश्वासयन् द्रुतम् । डुढौके भीमसेनाय कुंजरायेव कुज्जरः ॥३३९ ॥ पर्जन्याविव गर्जन्तौ क्रुद्धौ केसरिणाविव । युयुधाते उभौ वीरौ विविधैरायुधैश्चिरम् ॥३४० ॥ द्यूतवैरं स्मरन् भीम उद्यम्य महतीं गदाम् । दुर्योधनं निष्पिपेष सरथ्यरथसारथिम् ।। ३४१ ॥ दुर्योधने विनिहते निर्नाथास्तस्य सैनिकाः । हिरण्यनाभं शरणं सेनान्यं प्रतिपेदिरे ॥ ३४२ ॥ अनाधृष्टिं च सेनान्यं वामदक्षिणपक्षगाः । पांडवा यदवश्चापि सर्वेऽपि परिवव्रिरे ।। ३४३ ।। पोताग्रमिव निर्यामः सेनामुखमधिश्रितः । क्रुद्धो हिरण्यनाभोऽथ दधावे विब्रुवन् यदन् ॥३४४ ॥ अभिचंद्रस्तमित्यूचे विटवद्विब्रवीषि किम् । क्षत्रिया हि न वाक्छूराः किं तु शूराः पराक्रमात् ।।३४५ ।। १ अक्षैः पाशैः । २ बाणैः । ३ भीमसेनः ।
कृष्णजरासंघयुद्धम् ।
।। २७८ ॥