________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२७७ ॥
साधु वां युगपत्प्राप्तौ मायिनौ भूरिमायवत् । सममेव हनिष्यामि युवयोर्विरहोऽस्तु मा ।। ३२० ।। इत्युक्त्वा पत्रिभिस्तीक्ष्णैः सहदेवः सुयोधनम् । तिरोदधे शरत्काल इव कीरैर्वनस्थलीम् ।। ३२१ ।। दुर्योधनोऽपि माद्रेयमुपदुद्राव पत्रिभिः । चिच्छेद च धनुर्दंडं मूलं रणमहातरोः ॥ ३२२ ॥ दुर्योधनो मुमुचोच्चैरमोघं मंत्रसत्कृतम् । सहदेवविनाशाय कीनाशमिव सायकम् ।। ३२३ ।। गरुडनेषुणेषुं तमंतरापि धनंजयः । निवारयामास समं सुयोधनजयाशया ॥ ३२४ ॥ धनुः शकुनिरप्युच्चैरास्फाल्य शरवृष्टिभिः । माद्रयमद्रिमंभोद इव विष्वगुदानशे ।। ३२५ ।। शकुनः सहदवोऽपि रथं रथ्यान् ससारथीन् । ममंथ तच्छिरश्चाथ चकर्त फलवत्तरोः ।। ३२६ ॥ उलूकं नकुलोप्यस्त्रैरुस्त्रैरिव दिवाकरः । द्रुतं विद्रावयामास विरथीकृत्य हेलया ।। ३२७ ।। दुर्मर्षणरथं सोऽगात्ते च दुर्मर्षणादयः । विद्राविताः षडपि हि द्रौपदेयैः ससैनिकैः ।। ३२८ ।। दुर्योधनं शिश्रियुस्ते सोऽपि दुर्योधनो नृपैः । संभूय कासिप्रमुखैर्धनंजयमयोधयत् ।। ३२९ ।। रामपुत्रैर्वृतः पार्थः सुरैरिव पुरन्दरः । दारयामास विशिखैश्चित्रैः परवरुथिनीम् ।। ३३० ॥ प्राणान् दूर्योधनस्येव पृथग्भूतान् जयद्रथम् । पार्थोऽवधीच्छरैरंधीकुर्वन् सर्वानपि द्विषः ।। ३३१ ।। कर्णोऽथाकर्णमाकृष्टकालपृष्ठोऽधरं दशन् । वीरपृष्टोऽभ्यधाविष्ट हंतुक्रामः किरीटिनम् ॥ ३३२ ॥ १ श्रृगालवत् । २ दुर्योधनम् । ३ सहदेवम् । ४ यममिव । ५ किरणैः । ६ कालपृष्ठं नाम धनुः । ७ वीरः पृष्टये येन सः कर्णविशेणम् ।
अष्टमं पर्व सप्तमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
कृष्णजरासंघयुद्धम् ।
।। २७७ ।।