________________
त्रिषष्टिशलाकापुरुषचरिते
२७६॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
दुर्मर्षणादिभिः षड्भिद्रौपदेयाः ससैनिकाः । शेषैर्नृपैः पुना रामपुत्रा युयुधिरेतराम् ।। ३०७ ॥ राज्ञां दुर्योधनादीनां युगपद्वर्षतां शरान् । शरैः किरीटी चिच्छेद नलिनीनाललीलया ।। ३०८ ।। अवधीत्सारथिं रथ्यानभांक्षीच्च रथं शरैः । दुर्योधनस्य गांडीवी वर्म चापातयद्भुवि ।। ३०९ ।। अंगशेषो धार्तराष्ट्रो विलक्षः पत्तिमात्रवत् । वेगाद्ययौ शकुनिवदुत्पत्य शकुने रथम् ।। ३१० ॥ दशापि कासिप्रमुखानिषुवृष्ट्या धनंजयः । उपदुद्राव करकवृष्ट्यांबुद इव द्विपान् ।। ३११ ।। चकर्त शल्यो बाणेन युधिष्ठिररथध्वजम् । युधिष्ठिरोऽपि शल्यस्य सशरं चापमच्छिदत् ।।३१२ ।। शल्योऽन्यधनुरारोप्य कंकपत्रैर्युधिष्ठिरम् । तिरयामास मेघर्तुर्मेधैरिव दिवाकरम् ।। ३१३ ।। ततो मुमोच कौतेयः शक्तिं शल्याय दुःसहाम् । अकालविधुतमिव विश्वप्रक्षोभकारिणीम् ।।३१४ ।। परबाणैरस्खलितो वेगाद्गोधामिवाशनिः । निपत्य सावधीच्छल्यं नेशुश्च बहवो नृपाः ।।३१५ ॥ वृकोदरोऽपि संक्रुद्धो दुर्योधनसहोदरम् । दुरोदरच्छद्मजयं स्मारयन् लीलयावधीत् ।। ३१६ ॥ मायायुद्धैरस्त्रयुद्धैर्गांधारेणातियोधितः । चिक्षेप सहदेवोऽपि जीवितांतकरं शरम् ।। ३१७ ॥ शकुनौ तमसंप्राप्तमेव बाणं सुयोधनः । क्षत्राचारं विमुच्यैव चिच्छेद निशितेषुणा ।। ३१८ ।। माद्रेयस्तमुवाचोच्चैर्दुर्योधन रणेऽपि ते । छलं द्यूत इव व्यक्तमशक्तानां ह्यदो बलम् ॥३१९ ॥ १ अर्जुनः ।२ अर्जुनः । ३ अर्जुनः । ४ वजम् । ५ भीमः । ६ घूतच्छग्रजयम् ।
कृष्णजरासंघ
युद्धम्।
|| २७६ ॥