________________
त्रिषष्टिशलाकापुरुषचरिते २७५॥
अष्टमं पर्व सप्तमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
तं माहेन्द्रेण बाणेन महानमिर्त्यवारयत् । रुक्मिणं ताडयामास भाले चान्येन पत्रिणा ।। २९४ ।। घातेन विधुरं तेन वेणुदारी जहार तम् । दुद्रुवुः सप्त भूपालास्ते महानेमिनो द्रुतम् ।। २९५ ॥ द्रुमं समुद्रविजयः स्तिमितो भद्रकं नृपम् । वसुसेनमथाक्षोभ्योऽजैषीदक्षोभ्यविक्रमः ।। २९६ ॥ अमित्रं पुरिमित्राख्यं सागरश्चावधीधुधि ।धृष्टद्युम्नमभांक्षीच्च हिमवान् हिमवत् स्थिरः ।। २९७ ॥ धरणेन्द्र इव स्थाम्ना धरणोऽन्वष्टकं नृपम् । अवधीदभिचंद्रोऽपि शतधन्वानमुद्धतम् ।। २९८ ।। द्रुपदं पूरणोऽभांक्षीत् कुतिभोजं सुनेम्यपि । महापद्मं सत्यनेमिः श्रीदेवं दृढनेम्यपि ।। २९९ ॥ एवं च यदुवीरैस्तैर्भग्नाः परनृपा ययुः । हिरण्यनाभं शरणं सेनानीत्वे प्रतिष्ठितम् ॥ ३०० ॥ इतो भीमार्जुनौ वीरौ रामपुत्राश्च दोभृतः । व्यद्रावयन् धार्तराष्ट्रान् धार्तराष्ट्रान् धना इव ॥३०१ ।। अंधकारो दिशां जज्ञे पतभिः पार्थपत्रिभिः । धोरैगांडीवनिर्घोषैर्विधुरं विश्वमभ्यभूत् ।।३०२ ।। आकर्षतः संदधतोऽमुंचतश्च शरान रयात् । नालक्ष्यतांतरं तस्यानिमिषैरेपि खस्थितैः ।। ३०३ ।। अथ दुर्योधनः कासिस्त्रिगर्तः सबलोऽपि च । कपोतो रोमराजश्च चित्रसेनो जयद्रथः ।। ३०४ ।। सौवीरो जयसेनश्च शूरसेनोऽथ सोमकः । संभूयायोधयत्पार्थमपास्तक्षत्रियव्रताः ।। ३०५ ।। सहदेवः शकुनिना भीमो दुःशासनेन च । ऊलूकेन च नकुलः शेल्येन च युधिष्ठिरः ।। ३०६ ।। १ बाणेन । २ दुमनामानं नृपम् । ३ शत्रुम् । ४ धार्तराष्ट्रो हंसविशेषः । ५ अनिमिषैर्देवैः ।
कृष्णजरासंघयुद्धम् ।
।। २७५॥