________________
त्रिषष्टिशलाकापुरुषचरिते IR७४॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
वीरंमन्यं विब्रुवाणं रुक्मिणं तत्र दुर्मदम् । निरस्त्रं विरथं चक्रे महानेमिरमर्षणः ।। २८१ ॥ रक्षार्थ रुक्मिणस्तत्र वध्यकोटिमुपेयुषः । निपेतुरंतरा शत्रुतपाद्याः सप्त पार्थिवाः ।।२८२ ।। युगपद्वर्षतां तेषां सप्तानामपि सायकान् । चिक्षेप बाणैः शैवेयो धषि मृणालवत् ।। २८३ ॥ शत्रुतपश्चिरं युद्ध्वा शक्तिं चिक्षेप विद्विषे । जाज्वल्यमानां तां प्रेक्ष्य चुक्षुभुर्यदवोऽखिलाः ।। २८४ ।। तस्याः शक्तेर्मुखोद्भूता विविधायुधधारिणः । किंकराः क्रूरकर्माणोऽन्तरे पेतुः सहस्त्रशः ।। २८५ ॥ अथोवाचारिष्टनेमि मातलिस्तपसा ह्यमूम् । बलीन्द्रात् प्राप राजायं धरणादिव रावणः ।। २८६ ॥ वज्रेण भेद्या तदियमित्युक्त्वा नेमिशासनात् । महानेमिशरे वजं स समाक्रमयद्रुतम् ।। २८७ ॥ तं वजेषु विमुच्याशु तां शक्तिं भुव्यपातयत् । तं नृपं विरथं व्यस्त्रं महानेमिश्चकार च ।। २८८ ।। षण्णां नृपाणामन्येषां चापान समुद्रजोऽच्छिदत् । तदा रथांतरारुढो रुक्मी भूयोऽप्यढौकत ।। २८९ ।। शत्रुतपाद्या रुक्मी च संभूयाष्टापि ते नृपाः । शैवेयेन ययुधिरे धुरि मानवतां स्थिताः ।। २९० ॥ यद्यद्धन्वाददे रुक्मी कुमारस्तत्तदच्छिदत् । धनूंषि विंशतिश्छिन्नान्येवं तस्य निरंतरम् ।। २९१ ॥ गदा चिक्षेप कौबेरी स महानेमये ततः । आग्नेयेनेषुणा तां च भस्मीचक्रे शिवात्मजः ।। २९२ ।। शरलक्षाणि वर्षतं रुक्मी वैरोचनं शरम् । शैवेयाय प्रचिक्षेप पराक्षेपासहो युधि ।। २९३ ।। १ शिवादेवी पुत्रो नेमिः । २ समुद्रविजयपुत्रो नेमिः ।३ शैवेयः शिवापुत्र नेमिस्तेन ।
कृष्ण
जरासंघयुद्धम् ।
||२७४॥