________________
त्रिषष्टिशलाकापुरुषचरिते IR७३॥
अष्टमं पर्व | सप्तमः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
चिरं युद्ध्वा जरासंघसैनिकैः स्वामिभक्तितः । दृढीयांसोऽप्यभज्यंत ता_व्यूहाग्रसैनिकाः ।। २६८ ।।
आत्मेव ताह्मव्यूहस्य स्वयं तार्क्ष्यध्वजस्ततः । सैनिकांस्तान् स्थिरीचक्रे पताकं करमुत्क्षिपन् ।। २६९ ॥ पक्षाविव महानेमिपार्थो दक्षिणवामगौ । चंचूरिवाग्रव्यूहस्यानाधृष्टिचुकुपुस्त्रयः ।। २७० ।। दध्मौ शंखं सिंहनादं महानेमिर्महाभुजः । बलाहकमनाधृष्टिदेवदत्तं च फाल्गुनः ।। २७१ ।। यदवोऽताडयंस्तुर्यकोटीस्तन्निदैरथ । अनुजग्मे शंखनादः शंखकैः शंखराजवत् ।। २७२ ॥ शंखत्रयनिनादेन तूर्यनादेन तेन च । भटाः परबलेऽक्षुभ्यन्नक्रा इव महोदधौ ।। २७३ ।। नेम्यनाधृष्टिपार्थास्ते सेनान्यः शरवर्षिणः । चक्रमुर्विक्रमपराः कल्पांत इव सागराः ।। २७४ ।। नेमिसधिषु राजनः शकटव्यूहसंस्थिताः । परिविदुद्रुवुस्तेषां दोर्वीर्यमसहिष्णवः ।। २७५ ॥ चक्रव्यूहः स चाभंजि त्रिषु स्थानेषु तैस्त्रिभिः । वन्यद्विपैरिव परिणतैर्गिरिनदीतटम् ।। २७६ ।। स्वयं विहितमार्गास्ते प्रवाहाः सरितामिव । चक्रव्यूह प्रविविशुस्तदन्वन्येऽपि सैनिकाः ।। २७७ ॥ दुर्योधनो रौधिरश्च रुक्मी चेति नृपास्त्रयः । सैन्यान् संस्थापयंतस्तानुत्थितास्ते युयुत्सवः ।। २७८ ।। दुर्योधनोऽरुधत्पार्थमनाधृष्टि तु रौधिरिः ।रुक्मी पुनर्महानेमि महारथनृपैर्वृताः ।। २७९ ॥ द्वंद्वयुद्धमभूत्तेषां षण्णामपि परस्परम् । महारथानां चान्येषां तद्गृह्याणां सहस्त्रशः ।। २८० ॥ १ पार्थोऽर्जुनः । २ अर्जुनः । ३ तिर्यग्दंतप्राहरस्तु गजः परिणतो मतः ईति हैमः । ४ तेषां पश्चातदनु ।
जरासंघयुद्धम्।
|| २७३॥