________________
त्रिषष्टिशलाकापुरुषचरिते IR७२॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
रथानां पंचविंशत्या लक्षः परिवृता इमे । पृष्ठे तस्थुः पांडवानां धार्तराष्ट्रवधोद्यताः ।। २५५ ।। पृष्ठे तेषामभूच्चंद्रयशाः सिंहलबर्बरौ । कांबोजः केरलश्चापि द्रविडोऽपि च भूपतिः ।। २५६ ।। षष्ट्या रथसहस्त्रैश्च तेषामपि च पृष्ठतः । महासेनपिता तस्थौ स्थैर्यस्थामैकपर्वतः ।। २५७ ।। पक्षिणो रक्षणायास्थुर्भानुभामरभीरुकाः । असितः संजयो भानुर्धष्णुः कपितगौतमौ ।। २५८ ।। शत्रुजयमहासेनौ गंभीरश्च बृहद्ध्वजः । वसुवर्मोदयश्चैव कृतवर्मा प्रसेनजित् ।। २५९ ।। दृढधर्मा च विक्रांतश्चंद्रवर्मा च पार्थिवः । इत्यभूद्गरुडव्यूहो गरुडध्वजनिर्मितः ।। २६० ॥ भ्रातृस्नेहाधुयुत्सुं च शक्रो विज्ञाय नेमिनम् । प्रैषीद्रथं मातलिना जैत्रशास्त्रांचितं निजम् ॥२६१ ।। सूर्योदयमिवातन्वन् स रथो रत्नभासुरः । उपानीतो मातलिनालंचक्रेऽरिष्टनेमिना ।।२६२ ॥ कृष्णाग्रजमनाधृष्टि समुद्रविजयः स्वयम् । अभ्यषिंचच्चमूपत्वे पट्टबंधनपूर्वकम् ।। २६३ ॥ जज्ञे जयजयारावः सकलेऽपि हरेर्बले । जरासंघबले चाभूत्प्रक्षोभः सर्वतोऽपि हि ॥ २६४ ।। व्यूहयोरग्रसुभटैः प्रारेभे युद्धमुद्धतम् । अविस्फोटं प्रसर्पनिर्मिथो बद्धांचलैरिव ।। २६५ ।। चित्राण्युत्पेतुरस्त्राणि संफेटे व्यूहयोर्द्वयोः । युगांतोद्भांतयोः पूर्वापराब्ध्योरिव वीचयः ॥२६६ ॥ द्वयोरपि हि सेनान्योरुभौ व्यूहौ परस्परम् । प्रहेलिकावन्नितरां दुर्भेदत्वं निजग्मतुः ।। २६७ ।। १ मातलिरिंद्रसारथिः । २ चमू पोतीति चमूपः सेनापतिस्तस्य भावस्तत्त्वं तस्मिन् । ३ संगमे ।
कृष्ण
जरासंघ
युद्धम् ।
॥ २७२॥