________________
त्रिषष्टिशलाकापुरुषचरिते ।२७१॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
चक्रव्यूहप्रतिद्वंद्व निशायां यदवोऽपि हि । विदधुर्गरुडव्यूहं दुर्भेदमरिपार्थिवैः ।। २४२ ।। व्यूहस्यास्य कुमाराणामर्धकोटी महात्मनाम् । सीरपाणिशाङ्गपाणी स्थितौ तस्य तु मूर्धनि ।। २४३ ।। अक्रूरः कुमुदः पद्मः सारणो विजयी जयः । जरत्कुमारः सुमुखो दृढमुष्टिर्विदूरथः ।। २४४ ।। अनाधृष्टिर्दुर्मुखश्च वसुदेवसुता इमे । रथलक्षयुताः पृष्ठारक्षाः कंसद्विषोऽभवन् ।।२४५ ।। तेषां पृष्ठ चोग्रसेनो रथकोटीवृत्तोऽभवत् । तस्यापि पृष्ठरक्षत्वेऽभूवंश्चत्वार आत्मजाः ।। २४६ ॥ सपुत्रं रक्षितुं भोजं पृष्ठे तस्थुर्नृपा अमी । घरः सारणचंद्रौ च दुर्धरः सत्यकस्तथा ।। २४७ ॥ आश्रित्य दक्षिणं पक्षं समुद्रविजयः स्वयम् । भ्रातृभिर्धातृपुत्रैश्च सह तस्थौ महाभुजः ।। २४८ ।। महानेमिः सत्यनेमिदृढनेमिसुनेमिनौ । अरिष्टनेमिर्विजयसेनो मेघो महीजयः ॥ २४९ ।। तेजःसेनो जयसेनस्तथा जयमहाद्युती । समुद्रविजयस्यैते कुमाराः पार्श्वतोऽभवन् ।।२५०॥ रथानां पंचविंशत्या लक्षैरन्येपि भूभुजः । समुद्रविजयस्यास्थुः पुत्रवत्पारिपार्श्वकाः ।। २५१ ।। आश्रित्य वामपक्षं तु तस्थू रामस्य सूनवः । युधिष्ठिरप्रभृतयः पांडवाश्चामितौजसः ।। २५२ ।। उल्मको निषधः शत्रुदमनः प्रकृतिद्युतिः । सात्यकिः श्रीध्वजो देवानंद आनंदशांतनू ॥२५३ ।। शतधन्वा दशरथो धुवश्च पृथुविप्रथू । महाधनुर्दढधन्वातिवीर्यो देवनंदनः ।। २५४ ।। १ उग्रसेनम् ।
कृष्णजरासंघ
युद्धम् ।
|| २७१॥