SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR७०॥ अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । चक्ररत्नमिवामेधं चक्रव्यूह निजे बले । विरचय्य हनिष्यामः परानीकमनीकगम् ।। २३१ ।। अथ इष्टो जरासंघस्तमूचे साधु साध्विति । चक्रव्यूहाय चादिक्षत्सेनानाथान् महौजसः ।। २३२ ।। हंसको डिंभकोऽमात्यौ चमूनाथास्तथापरे । चक्रव्यूहं चक्रिरेऽथ शासनादर्धचक्रिणः ।। २३३ ।। चक्रे तत्र सहस्रारे राजैकैकोऽध्यरं स्थितः । तेषां च राज्ञां प्रत्येकं शतमेकं च दंतिनाम् ।। २३४ ॥ स्यंदनानां द्वे सहस्त्रे सहस्त्राः पंच वाजिनाम् । पदातीनां सहस्त्राणि षोडशामिततेजसाम् ।। २३५ ॥ प्रधेश्च परिधौ राज्ञां सपादषट्सहस्त्र्यभूत् । सहस्त्रैः पंचभिः साग्रैस्तत्रांतर्मगधेश्वरः ।। २३६ ।। गांधारसैन्धवबलं पृष्ठेऽभून्मगधेशितुः धार्तराष्ट्राः शतं ते च राज्ञो दक्षिणतोऽभवन् ॥२३७ ।। मध्यदेशनृपा वामे पुरोऽगणनरेश्वराः । पंचाशच्छकटव्यूहाः संधौ संधौ प्रधेर्नृपाः ।। २३८ ॥ अंतरांतरसंस्थाश्च गुल्मा गुल्मांतराद्गणाः । व्यूहस्य बहिरप्यस्थुश्चित्रैव्यूहैर्महीभुजः ।। २३९ ।। अथ राजा जरासंघः सत्यसंधं महाभुजम् । नानासंग्रामविख्यातकौशलं कौशलेश्वरम् ।। २४० ॥ हिरण्यनाभनामानं चक्रव्यूहस्य तस्य च । सेनानीत्वेऽभिषिषेच ययौ चास्तं दिवाकरः ॥२४१ ।। ।युग्मम् ।। १ अनीके युद्ध गतं स्थितं परानीकं शत्रुसैन्यं हनिष्याम इत्यन्वयः । २ सहस्त्रमरा यस्मिस्तस्मिश्चक्रे अरे इत्यध्यरं प्रत्यरं राजा स्थितः । ३ प्रधिश्चकनाभिस्तस्याः परिधौ वर्तुले । ४ असंख्यनृपाः अथवा गणनरेश्वरा इति पदं तत्र गणाश्चतुर्विधसेनास्तासामधिपाः । ५ गुल्माश्चतुर्विधसेनाः । कृष्णजरासंघयुद्धम्। ।। २७०॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy