________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२६९ ॥
दुर्योधनश्व कौरव्यो गांधारः शकुनिस्तथा । श्ववेच्छलबलौ ह्येतौ न वीरगणना तयोः ।। २१८ ।। अंगाधिराजः कर्णोऽपि सक्तुमुष्टिरिवार्णवे । शंके कृष्णबले स्वामिन् कोटिसंख्यमहारथे ।। २१९ ॥ नेमिः कृष्णो बलश्चातिरथः परबले त्रयः त्वमेक एव स्वबले बलयोर्महदंतरम् ॥ २२० ॥ अच्युताद्याः सुरेन्द्रा यं नमस्कुर्वंति भक्तितः । तेन श्रीनेमिना सार्धं युद्धाय प्रोत्सहेत कः ।। २२१ ।। छलयित्वा सुरैरेव कृष्णगृह्यैर्निपातितः । कालस्तव सुतस्तेन विद्धि दैवं पराङ्मुखम् ।। २२२ ।। नयं प्रमाणयंतोऽमी यदवो बलिनोऽपि हि । प्रणश्य मथुरापुर्या द्वारकां नगरीं ययुः ।। २२३ ।। बिलादिव त्वया सर्पः कृष्ट आहत्य यष्टिना । आययौ संमुखीनस्ते कृष्णोऽसौ न पुनः स्वयम् ॥ २२४ ॥ इयत्यपि गते स्वामिन्न योद्धुं युज्यतेऽमुना । अयुध्यमाने त्वय्येष स्वयं व्यावृत्य यास्यति ॥ २२५ ॥ इति तद्वचसा क्रुद्धो जरासंघोऽभ्यधादिति । यदुभिर्मायिभिर्नूनं भेदितोऽसि दुराशय ।। २२६ ॥ यत्तु भेषयसि त्वं मां शत्रुं शंसन् वृथैव तत् । किं बिभेति हरिः फेरुफैत्कारैः क्वापि दुर्मते ।। २२७ ॥ करोमि भस्मसादेष गोपालानां बलं बलात् । धिक् ते मनोरथमिमं निवर्तनकरं रणात् ॥ २२८ ॥ अथोचे डिंभको मंत्री तद्भावसध्शं वचः । प्राप्तकालो रणो ह्येष न त्याज्यः स्वामिनाधुना ।। २२९ ।। संग्रामे संमुखीनानां वरं मृत्युर्यशस्करः । रणात् पराङ्मुखानां तु न जीवितमपि प्रभो ॥ २३० ॥ १ श्वानवत् छलमेव बलं ययोस्तौ । २ कोटिः संख्या येषां तादृशा महाराथ यस्मिंस्तस्मिन् । ३ केरुः शृगालस्तस्य फेत्कारैः शब्दैः ।
अष्टमं पर्व सप्तमः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
कृष्णजरासंघयुद्धम् ।
॥ २६९ ॥