________________
त्रिषष्टिशलाकापुरुषचरिते IR६८॥
BHASKARANSHRSHASHA
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तदा च वसुदेवाय प्रददेऽरिष्टनेमिना । जन्मस्नात्रे सुरैर्दोष्णि बद्धौषध्यस्त्रवारणी ।। २०६ ॥ इतश्च मगधाधीशं सहैत्यापरमंत्रिभिः । उवाच हंसको मंत्री मंत्रर्पूवमिदं वचः ॥२०७ ।। अमंत्रितं पुराकार्षीत्कंसः सोऽप्याप तत्फलम् । मंत्रशक्तिं विनोत्साहप्रभुशक्ती दुरायती ।। २०८ ॥ परः स्तोकः समो वापि दृष्टव्यः स्वाधिकः खलु । किं पुनर्योऽधिकः स्वस्माद्विष्णुरेष महाबलः ॥२०९ ।। स्वयंवरे हि रोहिण्या दशा) दशमश्च सः । मुखांधकारो भूपानां तदैक्षि स्वामिना स्वयम् ॥२१०॥ तदाभूत्त्वब्दले नालं वसुदेवाय कोऽपि हि । तज्यायसा समुद्रेण त्वत्सैन्याः परिरक्षिताः ।। २११ ॥ द्यूते कोटिजयाज्ज्ञानः स्वसुतायाश्च जीवनात् । घातितोऽपि वसुदेवो न मृतः स्वप्रभावतः ।। २१२ ।। जातौ चास्माद्रामकृष्णौ वृद्धि चैतावतीं गतौ । ययोः कृते वैश्रवणो द्वारकां निर्ममे पुरीम् ।।२१३ ॥ एतावतिरथौ वीरौ शरणं यौ महारथाः । युधिष्ठिराद्या व्यसने शिश्रियुः पांडवा अपि ।। २१४ ॥ प्रद्युम्नशांबौ तनयौ रामकृष्णाविवापरौ । तौ च भीमार्जुनौ भीमौ कृतांतस्यापि दोर्बलात् ।। २१५ ॥ किं चान्यैाहतैर्वीरैर्नमिरेकोऽ पि तत्र यत् । लीलया निजदोदडच्छत्रीकर्तुमलं महीम् ॥२१६ ।। सैन्ये त्वदीये धौरेयौ दमघोषजरुक्मिणौ । रुक्मिणीहरणे दृष्टं बलं बलरणे तयोः ।। २१७ ।। १ शस्त्रवारणी ओषधी या देवैर्बद्धासीत्सा वसुदेवाय प्रददे इत्यर्थः । २ दुष्ठा आयतिः परिणामो ययोस्ते । ३ शत्रुः । ४ भयंकरौ । ५ दमघोषजः शिशुपालः । ६ बलरामेण सह युद्ध ।
कृष्णजरासंघयुद्धम् ।
।। २६८॥