________________
त्रिषष्टिशलाकापुरुषचरिते IR६५॥
| अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
आययावभिचंद्रोऽपि षट् तस्य च सुता इमे । चंद्रः शशांकश्चंद्राभः शशी सोमोऽमृतप्रभः ।। १६८ ॥ वसुदेवोऽपि तत्रागाद्वेवदेव इवौजसा । तत्सूनवश्च बहवो दोष्मंतो नामतस्त्वमी ।। १६९ ॥ जातौ विजयसेनाया अक्रूरः क्रूर इत्यपि । ज्वलनाशनिवेगौ च श्यामायास्तनुजावुभौ ।। १७० ॥ पुत्रा गन्धर्वसेनायास्त्रयोऽग्रय इवांगिनः । वायुवेगोऽमितगतिमहेन्द्रगतिरेव च ।। १७१ ।। पद्मावत्या मंत्रिपुत्र्यास्त्रयः पुत्रा महौजसः । सिद्धार्थो दारुकश्चापि सुदारुरपि विक्रमी ।। १७२ ।। उभौ च नीलयशसः पुत्रौ सिंहमतंगजौ । नारदो मरुदेवश्चेत्युभौ सोमश्रियः सुतौ ।। १७३ ॥ मित्रश्रियः सुमित्रस्तु कपिलः कपिलाभवः । पद्मावत्या अपि सुतौ पद्मः कुमुद एव च ।। १७४ ।। अश्वसेनोऽश्वसेनाजः पुंड्रः पुंड्राभवः पुनः । रत्नवत्या रलगर्भो वज्रबाहुश्च बाहुभृत् ।। १७५ ।। सोमश्रियः सोमपुत्र्याश्चंद्रकांतशशिप्रभौ । वेगवान् वायुवेगश्च वेगवत्याः सुतावुभौ ।। १७६ ।। पुत्रा मदनवेगायास्त्रैलोक्यप्रथितौजसः । अनाधृष्टिदृढमुष्टिर्हिममुष्ठिरिति त्रयः ।। १७७ ।। बंधुमत्या बंधुषेणः सिंहसेनश्च नंदनौ । पुत्रः प्रियंगुसुंदर्या युधि धुर्यः शिलायुधः ।। १७८ ।। तनयौ तु प्रभावत्याः ख्यातौ गांधारपिंगलौ । जराकुमारवाहीको जरादेव्याश्च नंदनौ ।। १७९ ।। अवंतिदेव्यास्तनयौ सुमुखो दुर्मुखोऽपि च । रोहिण्यास्तु सुतो रामः सारणोऽथ विदूरथः ।। १८० ।। तनयौ बालचंद्राया वज्रदंष्ट्रामितप्रभौ । पुत्रा रामस्य बहवो मुख्यास्त्वेतेऽभिधानतः ।। १८१ ।।
जरासंघ
युद्धम् ।
||२६५॥