SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR६४॥ अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । समायांतं जरासंघं नारदः किल कौतुकी चिराश्च गत्वा त्वरित्वं शशंसुः शार्ङ्गपाणये ॥ १५४ ॥ कृष्णावर्मेव कृष्णोऽपि तेजसामेकमास्पदम् । प्रयाणाय समुत्तस्थे भभाताडनपूर्वकम् ।। १५५ ॥ तन्नादेनामिलन् सर्वे यादवा भूभुजोऽपि च । सुघोषाघंटाघोषेण सौधर्मत्रिदशा इव ।। १५६ ॥ समुद्रविजयस्तेषु समुद्र इव दुर्धरः । तत्रागात् सर्वसन्नाही तस्यैते तनया अपि ।। १५७ ॥ महानेमिः सत्यनेमिढनेमिसुनेमिनौ । अरिष्टनेमिर्भगवान् जयसेनो महाजयः ।। १५८ ॥ तेजःसेनो जयो मेघश्चित्रको गौतमोऽपि च । श्वफल्कः शिवनंदश्च विष्वक्सेनो महारथाः ।। १५९ ।। अक्षोभ्यो द्विषदक्षोभ्यः समुद्रविजयानुजः । आययौ युधि धौरेयास्तस्याष्टौ च सुता इमे ।। १६० ।। उद्धवश्च धवश्चैव क्षुभितोऽथ महोदधिः । अंभोनिधिर्जलनिधिर्वामदेवो दृढव्रतः ।। १६१ ॥ स्तिमितोऽपि हि तत्रागात् पंचैते तत्सुतोत्तमाः । उर्मिमान् वसुमान् वीरः पातालः स्थिर एव च ।। १६२ ।। सागरः षट् च तस्पुत्रा निःकंपः कंपनस्तथा । लक्ष्मीवान् केशरी श्रीमान् युगांतश्च समाययुः ।। १६३ ।। आययौ हिमवास्तत्र तत्तनूजास्त्रयोऽप्यमी । विद्युत्प्रभस्तथा गंधमादनो माल्यवानपि ।।१६४ ।। अचलोऽचलपुत्राश्च सप्ताजग्मुर्महौजसः । महेंद्रो मलयः सह्यो गिरिः शैलो नगो बलः ॥ १६५ ॥ धरणः पंच तत्पुत्राः कर्कोटकधनंजयौ । विश्वरुपः श्वेतमुखो वासुकिश्च समाययुः ॥१६६ ॥ पूरणः पूरणपुत्राश्चत्वारश्च समाययुः । दुःपूरो दुर्मुखश्चैव दुर्दशो दुर्धरस्तथा ।। १६७ ॥ कृष्णजरासंघयुद्धम् । ||२६४॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy