________________
त्रिषष्टिशलाकापुरुषचारेते ॥२६३ ॥
तात मां विसृजाद्यैव प्रवेक्ष्यामि हुताशनम् । स्वसंधां पूरयिष्यामि न जीविष्याम्यतः परम् ॥ १४३ ॥ संघोऽभ्यधात् पुत्रि मा रोदीरेष नन्वहम् । रोदयिष्यामि कंसारेर्मातृस्व सृवधूजनम् ।। १४४ ॥ अयादवं भवत्वद्येत्युदित्वा मगधेश्वरः । प्रयाणायादिशत्सेनां वार्यमाणोऽपि मंत्रिभिः ।। १४५ ॥ महौजसस्तमन्वीयुः सहदेवादयः सुताः । चेदिराजः शिशुपालो धुरीणः स च दोष्मताम् ।। १४६ ॥ राजा हिरण्यनाभश्च महाबलपराक्रमः । दुर्योधनश्च कौरव्य आयोधनधुरंधरः ।। १४७ ।। अन्येऽपि बहवो भूपाः सामंताश्च सहस्त्रशः । जरासंघं समापेतुः प्रवाहा इव सागरम् ।। १४८ ।।
॥ युग्मम् ॥
पपात मुकुटो मूर्ध्ना हारस्तुत्रोट चोरसः । स्खलितश्चांचलेनांधिस्तस्याग्रे चाभरवत्क्षुतम् ।। १४९ । पस्पंदे नयनं वामं विष्मूत्रे तङ्गजोऽकरोत् । प्रतिकूलः समीरोऽभूद्गृधाश्च भ्रेमुरंबरे ।। १५० ।। आप्तैरिवानिमित्तैश्चाशकुनैश्चैवमादिभिः । कथ्यमानाशुभोदर्कोऽप्यस्थान्न स मनागपि ।। १५१ ।। रजोभिरिव सैन्योत्यैस्तुमुलैः पूरयन् दिशः । दिशां गज इवोद्भ्रांतः कंपयन्नवनीतलम् ।। १५२ ।। जरासंघः क्रूरसंघोऽध्यारुढो गंधसिंधुरम् । प्रति प्राचेतसीमाशां प्रचचाल महाबलः ।। १५३ ।।
॥ युग्मम् ॥
१ अयोधनं युद्धम् । २ पश्चिमदिशाम् ।
*%%%
अष्टमं पर्व
सप्तमः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
कृष्णजरासंघ
युद्धम् ।
॥ २६३ ॥