________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२६२॥
भ्रात्रावमानितोऽहं तु वीरवृत्त्या निरीय रे । सर्वत्रास्खलीतोऽ भ्राम्यं पर्यणैषं च कन्यकाः ।। १३० ॥ यथावसरमिलितैर्बन्धुभिश्चैभिरादरात् । अर्थितः स्वगृहाण्यागां न पुनस्त्वमिव स्वयम् ॥ १३१ ॥ शांबः पूज्यतिरस्कारमथ ज्ञात्वा स्वयं कृतम् । कृतांजलिः प्रणम्योच्चैरित्युवाच पितामहम् ।। १३२ ।। उक्तं मयैतदज्ञानाद्बालदुर्ललितं ह्यदः । क्षंतव्यं तातपादैस्तत्तातो लोकोत्तरो गुणैः ॥ १३३ ॥ इतश्च यवनद्वीपात्तत्रैयुर्जलवर्त्मना । महाभांडान्युपादाय वणिजः केचिदीश्वराः ।। १३४ ॥ व्यक्रीतान्यवस्तूनि न पुना रत्नकंबलान् । विशेषलाभमिच्छतः पुरे राजगृहे ययुः ।। १३५ ।। वणिग्भिस्तत्र वास्तव्यैरग्रे भूत्वाथ निन्यिरे । मगधाधीशदुहितुस्ते जीवयशसो गृहे ।। १३६ ।। अदर्शयंश्च ते जीवयशसो रत्नकंबलान् । उष्णे शीतान् शीते चोष्णान् बहल श्लक्ष्णरोमकान् ।। १३७ । मूल्यार्धे कंबलानां तु कृते पूच्चक्रिरेऽथ ते । आयामो द्वारिकां मुक्त्वा वयं किमधिलिप्सवः ।। १३८ ॥ पप्रच्छ ताञ्जीवयशाः का नाम द्वारिका पुरी । को नाम नृपतिस्तत्र वणिजस्तेऽप्यदोऽवदन् ।। १३९ ॥ दत्ते स्थाने समुद्रेण द्वारिका पूः सुरैः कृता । तत्र कृष्णो नृपः सूनुर्देवकीवसुदेवयोः ।। १४० ।। तच्च श्रुत्वा जीवयशा जगादैवं रुदत्यथ । जीवत्यद्यापि मद्भर्तुः संहर्ता शास्ति चावनिम् ।। १४१ ।। तां च दृष्ट्वा जरासंघोऽपृच्छद्रोदनकारणम् । साप्याख्यत्कृष्णवृत्तांतमित्यूचे च कृतांजलिः ।। १४२ ॥ १ अधिकं लब्धुमिच्छ्वः ।
अष्टमं पर्व
सप्तमः
सर्गः श्रीअरिष्ट| नेमिजिनचरितम् ।
कृष्णजरासंघयुद्धम् ।
॥ २६२ ॥