________________
त्रिषष्टिशलाकापुरुषचरिते IR६१॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
भामौकसि गतः शांबो भीरोर्वामेतरं करम् । स्वहस्तेनोपरिस्थेनादाय वामेन वामधीः ।। ११७ ॥ एकोनकन्याशतस्य पाणीन् दक्षिणपाणिना । धृत्वा च युगपद्वति परितो विधिनाभ्रमत् ।। ११८ ।। पश्यंत्यः कन्यकाः शांबमूचुः पुण्योदयादसि । विधिना योजितो नस्त्वं पती रतिपतेः समः ॥ ११९ ॥ वृत्तोद्वाहः समं ताभिः शांबो वासगृहे ययौ । भीरुः शांबेन तत्रायान् भृकुट्या भीषितो ययौ ।। १२० ॥ गत्वा स आख्यामायै साप्यश्रद्दधती स्वयम् । तत्रागत्यैक्षिष्ट शांबं शांबोऽपि प्रणनाम ताम् ।। १२१ ॥ सकोपा साप्युवाचैवं केनानीतोऽसि धृष्ट रे । सोऽप्यूचेऽहं त्वयानीतः कन्योद्वाहं च कारितः ।। १२२ ।। प्रमाणमत्र निःशेषो मध्यस्थो द्वारिकाजनः । इत्युक्ता सापि पप्रच्छ तत्रायातान् पुरीजनान् ।।१२३ ॥ तेऽप्यूचुर्देवि मा कुप्य त्वया शांबः प्रवेशितः । अस्माकं पश्यतामेव कन्योद्वाहं च कारितः ।। १२४ ।। मायी मायिसुतो मायिकनिष्ठो मायिनीभवः । कन्यारुपोऽच्छलयन्मामित्युक्त्वा सा ययौ रुषा ।। १२५ ॥ प्रत्यक्षं सर्वलोकानां कृष्णस्ताः कन्यकाः स्वयम् । ददौ शांबाय चक्रे च जांबवत्युत्सवं परम् ।। १२६ ॥ वसुदेवं नमस्कर्तुं गतः शांबोऽब्रवीदिति । भ्रांत्वा मां तात युष्माभिश्चिरेणोढाः खलु स्त्रियः ।। १२७ ।। अभ्रांत्वापि मयैकत्र युगपत्कन्यकाशतम् । परिणीतमिति व्यक्तं युष्माकं मम चांतरम् ।। १२८ ।। प्रत्यूचे वसुदेवोऽपि कूपमंडूककल्प रे । पित्रा निःसारितोऽप्येष धिग्धिक् त्वां मानवर्जितम् ।। १२९ ।। १ वामा सुंदरा धीर्बुद्धिर्यस्य सः । २ कामस्य ।
शांबस्य मायया भामापुत्रभीरुविवाहे कन्याभिः सह विवाहः ।
|| २६१॥