________________
त्रिषष्टिशलाकापुरुषचरिते IR६०॥
अष्टमं पर्व सप्तमः
सर्गः
| श्रीअरिष्टनेमिजिनचरितम् ।
यदा हस्ते गृहीत्वाहं शांबमत्रानयाम्यरे । तदा त्वया समागम्यमित्यूचे सापि तं क्रुधा ।। १०४ ।। यदादिशति मे मातेत्युदित्वा रुक्मिणीसुतः । ययौ स्मशाने शांबोऽपि भ्रांत्वा तत्र समाययौ ।। १०५ ।। उभौ स्मशानभूम्यां तौ दाहशुल्कं महत्तरम् । गृहीत्वा ददतुर्दग्धुं मृतकानि पुरीसदाम् ॥ १०६ ।। इतश्च भीरवे भामैकोनकन्याशतं शुभम् । अमेलयत्प्रयत्नाच्च कन्यामेकामियेष च ।। १०७॥ प्रज्ञप्त्या तत्तु विज्ञाय प्रद्युम्नो व्यकरोच्चमूम् । जितशत्रुर्नाम नृपः स्वयं जज्ञे च तत्क्षणात् ।। १०८ ॥ शांबश्च जज्ञे तत्कन्या देवकन्यासहोदरा । भीरुधात्र्या च ददृशे क्रीडंती सा सखीवृता ॥ १०९ ।। तां ज्ञात्वा सत्यभामायै सा सद्योऽपि व्यजिज्ञपत् । भामाऽयाचिष्ट भीर्वर्थे जितशत्रु नरेण ताम् ।। ११० ।। जितशत्रुर्बभाषे तं तदा कन्यां ददाम्यहम् ।भामा हस्ते गृहीत्वा द्वारकां प्रविशेद्यदि ॥ १११ ॥ अन्यच्चोद्वाहकालेऽस्याः करं भीरुकोपरि । चेत्कारयति भामा तद्भीरवेऽस्तु ममात्मजा ।। ११२ ॥ इत्युक्तः स नरो गत्वा भामायै तद्व्यजिज्ञपत् । आमेत्युक्त्वा ययौ भामार्थिनी तच्छिबिरे द्रुतम् ।।११३ ॥ शांबो बभाषे प्रज्ञप्तिं भामा तस्या जनोऽपि च । कन्यारुपं पश्यतु मां शांबमेवापरो जनः ॥११४ ।। तथा कृते च प्रज्ञप्त्या भामाया दक्षिणे करे । गृहीतः शाबकुमारः प्राविशद्वारकापुरीम् ॥ ११५ ॥ आनिन्ये भामया शांबो भीरोः पाणिग्रहोत्सवे । अहो चित्रमहो चित्रमित्यूचुर्नागरस्त्रियः ॥११६ ।।
|शांबस्य मायया भामापुत्रभीरुविवाहे कन्याभिः
विवाहः ।
|| २६०॥