________________
R
त्रिषष्टिशलाकापुरुषचरिते IR५९॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
ऊचे विष्णुः सुतं सिंही सौम्यं भद्रं च मन्यते । गजा एव हि जानति तस्य क्रियां शिशोरपि ।।९० ।। दर्शयाम्यद्य तच्चेष्टा इत्युक्त्वा भीररुपभृत् । चक्रे हरिस्तामाभीरीरुपां जांबवतीमपि ।। ९१ ।। विक्रीणानावुभौ तक्रं विशंतौ द्वारकापुरीम् । दृष्टौ शांबकुमारेण सदा स्वैरविहारिणा ।। ९२ ।। शांबोऽवोचदथाभीरीमेही क्रीणामि गोरसम् । इत्युक्ता सान्वगाच्छांबं स आभीरश्च तां पुनः ।। ९३ ॥ एकं देवकुलं शांबः प्रविष्टस्तामथाह्वत । सोचे नात्र प्रवेक्ष्यामि मूल्यमत्रैव देही मे ।। ९४ ।। अत्रावश्यं प्रवेष्टव्यमित्युदित्वा करेण ताम् । गृहीत्वाक्रष्टुमारेभे शांबो हस्ती लतामिव ।। ९५ ।। रे किं गृह्णासि मद्भार्यामित्याभीरः स तं द्रुतम् । जघानाविरभूतां च तौ तु जांबवतीहरी ।। ९६ ॥ संप्रेक्ष्य पितरौशांबः पिधायास्यं पलायितः । अदर्शि सुतदुश्चेष्टेत्यूचे जांबवती हरिः ।। ९७ ॥ प्रसह्यानीयमानः स द्वितीयेऽहनि शाह्मिणा । कीलिकां घटयन्नागात् पृष्टश्चैवमवोचत ।। ९८ ।। वचनं शस्तनं योऽद्य वदिष्यति तदानने । क्षेपणीया कीलिकेयमतोऽहं घटयाम्यमूम् ।। ९९ ।। निर्लज्जः कामविवशः स्वैरमत्र विचेष्टते । इति निर्वासितः शांबः स्वपुर्याः शार्ङ्गपाणिना ।। १०० ।। प्रज्ञप्तिविद्यां प्रद्युम्नोऽप्यन्तःस्नेहाधिवासितः । शांबाय गच्छतेऽदत्त प्राग्जन्मन्यपि बंधवे ।। १०१ ।। प्रद्युम्नो भीरुकं नित्यमर्दयन् भामयौच्यत । नगर्याः किं न निर्यासि रे शांब इव दुर्मते ।। १०२ ॥ सोऽप्यूचे कुत्र गच्छामि श्मशान इति सावदत् । कदा मया समागम्यमित्युवाच स तां पुनः ।। १०३ ।।
कृष्णकृता शांबपरीक्षा ।
CSCORESCRECASCARRORSCRIKASKRORSCO
॥ २५९॥