________________
त्रिषष्टिशलाकापुरुषचरिते I२५८॥
अष्टमं पर्व | सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
हा वत्से क्वासि वैदर्भि संदर्भो नोचितो ह्यभूत् । मया गौरिव चंडालद्वारे क्षिप्तासि नंदने ।।७७ ।। सत्यं हि कोपश्चंडालश्चंडालाभ्यां स तन्मया । अदापयत्सुतां सर्वो ह्यात्मवर्गहितैषकः ।। ७८ ।। रुक्मिण्या याच्यमानापि प्रद्युम्नायात्मसूनवे । क्रोधांधेन न दत्तासि धिङ्मया मंदमेधसा ॥७९ ॥ रुदनेवं च शुश्राव गंभीरं तूर्यनिस्वनम् । कुतोऽयमिति पृष्टाश्च ज्ञात्वाचख्युनियोगिनः ।। ८० ।। प्रद्युम्नशांबी वैदा सहितौ नगराबहिः । विमानतुल्ये प्रासादे तिष्ठतो नाकिनाविव ।। ८१ ॥ चारणैः स्तूयमानौ तौ वर्यतूर्यमनोहरम् । संगीतकं कारयंतौ नादोऽयं तद्भवः प्रभो ।। ८२ ।। ततः प्रमुदितो रुक्मी तावानिन्ये निजे गृहे । स्वयं जामेयजामातृस्नेहादान चाधिकम् ।। ८३ ।। ततो रुक्मिणमापृच्छय वैदर्भीशांबसंयुतः । प्रधुम्नोऽगाद्वारवत्यां रुक्मिणीनयनोत्सवः ।। ८४ ॥ नवयौवनया रुक्मिपुत्र्या रत्येव नव्यया । रममाणः सुखं तस्थौ प्रद्युम्नो नवयौवनः ।। ८५ ॥ शांबो हेमांगदनृपपुत्र्या वेश्याप्रसूतया । सुहरिण्याख्यया रेमे रुपादत्यप्सरःश्रिया ।। ८६ ।। जघान क्रीडयन्नित्यं शांबो भीरुं तथा धनम् । प्राज्यं द्यूते हारयित्वा दापयामास कौतुकी ।। ८७ ।। रुदन् गत्वा भीरुराख्यद्भामायै सापि विष्णवे । सोऽपि देव्यै जांबवत्यै तच्छांबस्य विचेष्टितम् ।। ८८ ।। जगाद जांबवत्येवमियत्कालं मया न हि ।शांबदुर्विनयोऽश्रावि किमिदं विष्टरश्रवः ॥ ८९ ।। १ संयोगः । २ अप्सरसां श्रियमतिक्रान्तात्यासरःश्रीस्तया । ३ शांबस्य दुर्विनयः । ४ हे विष्णो विष्टरं विस्तृत श्रवः कीर्तिर्यस्येति समासः ।।
प्रद्युम्नवैदर्भीविवाहः।
।। २५८ ॥