________________
त्रिषष्टिशलाकापुरुषचरिते IR५७॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कृत्वा विद्याबलादग्निं साक्षीकृत्य च कृष्णसूः । आमुक्तकंकणां श्वेतदुकूलां तामुपायत ।। ६४ ॥ रमयामास तां स्वैरं कार्णिर्विविधभंगिभिः । निशाशेषेऽब्रवीच्चैवं याम्यहं शांबसन्निधौ ।। ६५ ।। पितृभ्यां परिवारेण पृच्छ्यमानापि मा ब्रवीः । त्वद्देहोपद्रवरक्षा विहितास्ति मयानघे ।। ६६ ।। इत्युक्त्वा कार्ष्णिरगमद्वैदर्यप्यतिजागरात् । रतश्रमाच्च सुष्वाप जजागार प्रगेऽपि न ॥ ६७ ॥ तत्राययौ च तद्धात्री तदृष्ट्वा कंकणादिकम् । विवाहचिह्न साशंका तामुत्थाप्यान्वयुक्त च ।। ६८ ॥ नाख्यच्च किंचिद्वैदर्भी धात्री च स्वागसश्चिदे । शशंस रुक्मिणे गत्वा राज्यै च भयविह्वला ।। ६९ ॥ ताभ्यामपि समागत्य सानुयुक्ता शशंस न । व्यक्तं विवाहसंभोगचिह्न ददृशतुश्च तौ ॥ ७० ॥ दध्यौ मनसि रुक्म्येवं कन्येयं कुलपांसुना । अदत्तापि हि केनापि सह रेमे निजेच्छया ।।७१ ॥ चंडालाभ्यां वरं ताभ्यां दत्तासीत्कन्यकाधमा । ध्यात्वेत्याजूहवद्रोषात्तौ चंडालौ स्ववेत्रिणा ।। ७२ ॥ कन्यका गृह्यतामेषा यातं तत्र न यत्र वाम् । पश्यामीति वदन्रोषाद्वैदर्भी प्रददौ तयोः ।।७३ ।। वैदर्भीमूचतुस्तौ च राजपुत्र्यावयोह । जलौकश्चर्मरज्ज्वादिविक्रय किं करिष्यसि ।।७४ ।। साप्यूचे परमार्थज्ञा यदैवं कारयिष्यति । तदवश्यं करिष्यामि दुर्लघ्यं दैवशासनम् ।। ७५ ।। ततस्तौ तामुपादाय वीरौ जग्मतुरन्यतः । पश्चात्तापाद्रुक्मिराजोऽप्यरोदीदिति पर्षदि ॥७६ ।। १ बद्धकंकणाम् । २ अपृच्छत् । ३ स्वपराधस्य नाशाय । ४ हे राजपुत्रि । ५ जलौको, जलस्थानम् ।
प्रद्युम्नवैदर्भीविवाहः ।
||२५७||