________________
त्रिषष्टिशलाकापुरुषचरिते IR५६॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
प्रद्युम्न
उवाच शांबः को नाम प्रद्युम्नं रुपमन्मथम् । पृथ्व्यलंकारतिलकं न जानाति महौजसम् ।। ५१ ।। तच्छुत्वोत्कंठिता जज्ञे वैदर्भी रागगर्भिता । तदा च स्तंभमुन्मूल्य मत्तेभः कोऽप्यधावत ।। ५२ ।। उपद्रवन्पुरं सर्वमकांडकृतविडूरः । नाशक्यत स केनापि वशीकर्तुं निषादिना ।। ५३ ।। वशीकरोति यः कश्चिदिमं तस्मै ददाम्यहम् । अभीप्सितमिति क्षमापः पटहं पर्यदापयत् ।। ५४ ।। पटहो न स केनापि दधे ताभ्यां च धारितः । गीत्या प्रद्युम्नशांबाभ्यां स्तंभितश्च महागजः ।। ५५ ॥ द्वावप्यारुह्य तं नागं नीत्वालाने बबंधतुः । चित्रीयमाणौ पौराणां राज्ञाप्याह्नायितौ मुदा ।। ५६ ।। याचेथां रुचितं यद्वामित्युक्तौ रुक्मिणा च तौ । इमां प्रदेहि वैदर्भी नास्ति नौ धान्यरंधनी ।। ५७ ॥ तच्छुत्वा कुपितो रुक्मी तौ पुरान्निरवासयत् । प्रद्युम्नोऽप्यब्रवीच्छांबं दुःखं तिष्ठति रुक्मिणी ।। ५८ ॥ वैदाः परिणयने विलंबस्तन्न युज्यते । इति तत्र ब्रुवाणेऽपि रजन्यजनि निर्मला ।। ५९ ॥ ततः सुप्तेषु लोकेषु प्रद्युम्नो निजविद्यया । प्रासादभूम्यां सप्तम्यां स्थितां रुक्मिसुतां ययौ ।। ६० ।। रुक्मिणीस्नेहलेखं स तस्याः कृतकमार्पयत् । वाचयित्वा साप्यवोचब्रूहि किं ते ददाम्यहम् ।।६१ ।। सोऽप्यूचे मह्यमात्मानमेव देहि सुलोचने । यदर्थे याचितासि त्वं प्रद्युम्नः सोऽस्मि सुंदरि ।। ६२ ।। अहो सुघटितं दैवाज्जातं नन विधेरिति । ब्रुवाणा रुक्मितनया तद्वचः प्रत्यपद्यत ।। ६३ ॥ १ जनक्षोमः । २ अन्नपाचिका । ३ कृत्रिमम् ।
वैदर्भीविवाहः।
॥२५६॥