________________
त्रिषष्टिशलाकापुरुषचरिते IR५५॥
| अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
प्रधुम्न
अन्येचू रुक्मिणी पुत्री वैदर्भी नाम रुक्मिणः । प्रद्युम्नेनोद्वाहयितुं प्रैषीभोजकटे नरम् ॥ ३८ ॥ सोऽवोचद्रक्मिणं नत्वा देवी त्वां वक्ति रुक्मिणी । वैदर्भीयं निजसुता प्रद्युम्नाय प्रदीयताम् ॥ ३९ ॥ उचितो मम विष्णोश्च दैवाद्योगः पुरा ह्यभूत् । योगः प्रद्युम्नवैदर्योर्भवतु त्वत्कृतोऽधुना ।। ४० ॥ प्राग्वैरं संस्मरन् रुक्मीत्यूचे दास्ये निजां सुताम् । चंडालेभ्यो वरमहं न तु विष्णोः कुलेऽपि हि ॥४१ ॥ दूतोऽपि गत्वा रुक्मिण्यास्तदाचख्यौ यथातथम् । भ्रात्रापमानिता सास्थान्म्लाना नक्तमिवाब्जिनी ॥ ४२ ॥ किमेवं खिद्यसे चेति प्रद्युम्नेन तु सोदिता । शशंस रुक्मिवृत्तांतं मनःशल्यनिबंधनम् ।। ४३ ॥ प्रद्युम्नोऽप्यब्रवीन्मातर्मा ताम्य स हि मातुलः । न सामार्हस्तदुचितं ततस्तातोऽकरोत्तदा ॥४४ ।। तस्योचितं विधायैष तत्पुत्रीमुद्वहाम्यहम् । इत्युक्त्वा सह शांबेनोत्पत्य भोजकटे ययौ ।। ४५ ।। किन्नरस्वरचंडालरुपौ भूत्वा च तत्र तौ । गायंतौ जहतुः सर्वपौराणां मृगवन्मनः ।। ४६ ॥ ज्ञात्वाहूय च तौ मायामातंगौ मधुरस्वरौ । अगापयद्रुक्मिनृपः स्वोत्संगे तां सुतां दधन् । ४७ ॥ तयोर्गीतेन मुदितो रुक्मिराट् सपरिच्छदः । दत्त्वा द्रव्यमपृच्छत्तावत्रायातौ कुतो युवाम् ॥४८ ।। तावप्याचख्यतुः स्वर्गादायातौ द्वारकां पुरीम् । विदधे स्वर्गिभिः सा हि कृते देवस्य शाङ्गिणः ।। ४९ ।। मुदिता तौ तु पप्रच्छ वैदर्भी तत्र किं युवाम् । जानीथः कृष्णरुक्मिण्योः प्रद्युम्नं नाम नंदनम् ॥ ५० ॥ १ सामवचनयोग्यः ।
वैदर्भी
विवाहः।
॥ २५५ ॥