________________
त्रिषष्टिशलाकापुरुषचरिते IR५४॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
सत्यारुपं विधायाथ कयापि च्छलितोऽस्मि किम् । यदेषा मा विलक्षा भूदिति रेमे तया सह ।। २४ ।। तस्या रमणसमयं रौक्मिणेयोऽवगम्य तम् । भेरीमताडयद्विष्णोर्विश्वविक्षोभकारिणीम् ।। २५ ।। केनेयं ताडिता भेरीत्यपृच्छत् क्षुभितो हरिः । ताडिता रौक्मिणेयेन शशंसेति परिच्छदः ॥२६॥ स्मित्वा दध्यौ हरिनूनं भामाद्य च्छलितामुना । तनयोऽपि हि सापत्नः सपत्नीदशकोपमः ।। २७ ।। किंचित् सभयं संभोगाद्भामाया भीरुरात्मजः । भविता भवति खलु नान्यथा भवितव्यता ।।२८ ।। प्रातश्च रुक्मिणीगेहे गतोऽपश्यज्जनार्दनः । तेन दिव्येन हारेण भूषितां जांबवत्सुताम् ।। २९ ।। निस्पंदाक्षं प्रेक्षमाणमूचे जांबवती हरिम् । किमेवं वीक्षसे स्वामिन् सैवास्मि तव पल्यहम् ॥३०॥ ऊचे च विष्णुर्हारोऽयं दिव्यो देवि कुतो न्विति । साप्यूचे त्वत्प्रसादेन किं न वेत्सि स्वयं कृतम् ।।३१ ॥ सिंहस्वप्नं च सा चख्यौ व्याचख्यौ च जनार्दनः । प्रद्युम्नतुल्यस्तनयस्तव देवि भविष्यति ॥ ३२ ॥ इत्युक्त्वा प्रययौ विष्णुः समये जांबवत्यपि । शांबं नामासूत सुतं सिंहीवाद्वैतविक्रमम् ।। ३३ ॥ दारुको जयसेनश्च सारथेमैत्रिणः पुनः । सुबुद्धिरेते तनयाः समं शांबेन जज्ञिरे ।। ३४ ॥ अभूच्च सत्यभामायाः सूनुर्नाम्ना तु भानुकः । गर्भाधानानुसारात्तु भीरुरित्यपराभिधः ।। ३५ ।। अन्यासामपि गोविंदपत्नीनां जज्ञिरे सुताः । महौजसो महावीर्या भद्रेभकलभा इव ।। ३६ ॥ मंत्रिसारिथपुत्रैश्च समं शांबो व्यवर्धत । क्रमात्कलाकलापं च प्राज्ञो जग्राह लीलया ।। ३७ ।।
प्रद्युम्नमायया जांबवत्याः पुत्ररत्नाप्तिः, भामया भीरु पुत्रप्राप्तिश्च ।
|| २५४ ॥