________________
त्रिषष्टिशलाकापुरुषचरिते IR५३॥
अष्टम पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कृष्णस्तदाग्रहं ज्ञात्वा त्रिदशं नैगमेषिणम् । उद्दिश्याष्टमभक्तेन पौषधं प्रत्यपद्यत ॥ ११ ॥ आविर्भूय नैगमेषी तमूचे किं करोमि ते । कृष्णोऽप्युवाच भामायै देहि प्रद्युम्नवत्सुतम् ।। १२ ।। नैगमेष्यवदद्यस्यां पुत्रेच्छा ते भजस्व ताम् । त्वममुं हारमामोच्य ततो भावीप्सितः सुतः ॥ १३ ॥ अर्पयित्वा च तं हारं नैगमेषी तिरोदधे । वासकं वासुदेवोऽपि सत्यायै मुदितो ददौ ।। १४ ॥ प्रज्ञप्त्या ज्ञापितस्तच्च प्रद्युम्नोऽम्बामजिज्ञपत् । ऊचे चादत्स्व तं हारं मत्तुल्यसुतकाङ्क्षया ।। १५ ॥ रुक्मिण्यूचे त्वयैवास्मि कृतार्था वत्स सूनुना । किं च प्रसूते भूयोऽपि न स्त्रीरत्नं कदाचन ॥ १६ ॥ का सपत्नीषु तेऽभीष्टा यस्याः पुत्रं ददाम्यहम् । प्रद्युम्नेनेति सा भूयः पृष्टाभाषिष्ट रुक्मिणी ।। १७ ॥ त्वद्वियोगे दुःखितायाः समदुःखा ममाभवत् । पुरा जांबवती वत्स तस्याः स्तात्त्वत्समः सुतः ॥ १८ ॥ प्रद्युम्नानुज्ञया साथाजूहवज्जांबवत्सुताम् । प्रद्युम्नोऽपि हि तां भामारुपामकृत विद्यया ।। १९ ।। सा तदाख्याय रुक्मिण्या प्रेषिता सदने हरेः । सायं ययौ तेन हारं दत्त्वा च बुभुजे मुदा ।।२०।। तदैव च महाशुक्राद्देवः प्रच्युत्य कैटभः । आगात् कुक्षौ जांबवत्याः सिंहस्वप्नोपसूचितः ॥ २१ ॥ ततो ययौ जांबवती हृष्टा निजनिकेतने । आययौ सत्यभामा च कृष्णौकोवासकार्थिनी ।। २२ ।। तां दृष्ट्वाचिंतयत् कृष्णो भोगातृप्ता अहो स्त्रियः । अधुनैव गता ह्येषा यद्भूयोऽप्येति सत्वरा ॥२३ ।। १ कृष्णस्यौको गृहं तस्मिन्वासकार्थिनी भोगार्थिनीति यावत् । २ भोगेषु अतृप्ता ।
| प्रद्युम्नमायया जांबवत्याः पुत्ररलप्राप्तिः ।
।। २५३॥