________________
[ सप्तमः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते IR५२॥
अष्टमं पर्व सप्तमः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
भामायाः प्रद्युम्नाम
पुत्राप्त्यै
अथ प्रवर्तमानेऽत्र प्रधुम्नागमनोत्सवे । दुर्योधनः समुत्थाय वासुदेवं व्यजिज्ञपत् ॥१॥ पुत्री मे ते स्नुषा स्वामिन् केनाप्यपहृताधुना । तन्मृग्यतां क्वापि यथा भानुकः परिणीयते ॥२॥ कृष्णोऽप्युवाच सर्वज्ञो नाहं स्यां तादृशोऽपि चेत् । तत् किं मया रौक्मिणेयो न ज्ञातः केनचिद्धृतः ॥३॥ प्रज्ञप्त्या तामहं ज्ञात्वात्रानेष्यामीत्युदीरयन् । तत्र प्रद्युम्न आनैषीत्तां स्वयंवरकन्यकाम् ।।४।। कृष्णेन दीयमानां तां मम ह्येषा वधूरिति । प्रधुम्नो न हि जग्राह पर्यणैषीच्च भानुकः ॥ ५ ॥ अनिच्छुनापि प्रधुम्नेनोत्सवेन महीयसा । खेचरक्ष्मापकन्याश्च गोविंद उदवाहयत् ।। ६ ।। प्रद्युम्नानयनहेतोरुपकारिणमर्चितम् । नारदं व्यसृजतां च रुक्मिणीशाधारिणौ ॥७॥ प्रद्युम्नस्य महाऋद्ध्या ताम्यंती श्लाघयापि च । भामा कोपगृहे गत्वा शिश्ये जर्जरमंचके ॥८॥ तत्रायातश्च कंसारिाजहार ससंभ्रमः । केनापमानितासि त्वं येनैवं सुभ्र ताम्यसि ॥९॥ साप्यूचे नापमानो मे किं तु प्रद्युम्नसन्निभः । न चेन्मे भविता सूनुमरिष्यामि तदा ध्रुवम् ।। १०॥
प्रतिश्रवः ।
॥ २५२॥