________________
त्रिषष्टिशलाकापुरुषचरिते IR५१॥
प्रद्युम्नं सहजातयौवनमिव स्वर्वासिलीलास्पृशं स्वांके न्यस्य जनार्दनो जनमन:कौतूहलोत्पादकम् । रुक्मिण्या सहितो विवेश नगरी तामिंद्रवद्द्वारिका द्वारे न्यस्तनवीनतोरणकृतभ्रूविभ्रमां संभ्रमात् ।। ४९३ ।।
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
प्रद्युम्नस्य पितृभ्यां मिलनम् ।
इत्याचार्यश्रीहेमचंद्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते
महाकाव्येऽष्टमपर्वणिरुक्मिण्यादिपरिणयनपांडवद्रौपदीस्वयंवरप्रद्युम्नचरितकीर्तनो
नाम षष्ठः सर्गः ।
॥२५१॥
१स्वर्वासी देवः ।