SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अष्टमं पर्व त्रिषष्टिशलाकापुरुषचरिते IR५०॥ सर्गः श्रीअरिष्टनेमिजिनचरितम् । तत्र नागामिति हरिश्चोचे शपथपूर्वकम् । माया तवैवेति वदंत्यगाभामा निजे गृहे ।। ४८१ ।। प्रत्याययितुमारेभे तां विष्णुस्तद्गृहे गतः । रुक्मिण्यै नारदश्चाख्यत् प्रद्युम्नोऽयं सुतस्तव ।। ४८२ ।। आविष्कृत्य निजं रुपं प्रद्युम्नो देवसन्निभम् । पपात पादयोर्मातुश्चिरदुःखतमोरविः ॥ ४८३ ।। रुक्मिणी प्रक्षरत्स्तन्या बाहुभ्यामालिलिंग तम् । चुचुंब च मूर्ध्नि मुहुर्हर्षाश्रुप्लावितेक्षणा ।। ४८४ ॥ प्रद्युम्नस्तां जगादाथ ज्ञाप्यस्तावन्न खल्वहम् । दर्शयामि पितुर्यावदाश्चर्य किंचनापि हि ॥ ४८५ ।। हर्षव्यग्रा रुक्मिणी तु न हि प्रत्युत्तरं ददौ । मायारथे समारोप्य रुक्मिणी प्रचचाल सः ॥ ४८६ ।। प्रद्युम्नः पूरयन् शंखं क्षोभयज्जनमब्रवीत् । हरामि रुक्मिणीमेष कृष्णो रक्षतु चेद्बली ॥ ४८७ ।। कोऽयं मुमूर्षुर्दुर्बुद्धिरिति जल्पन् जनार्दनः । ससैन्योऽप्यन्वधाविष्ट शाङ्गमास्फालयन्मुहुः ॥ ४८८ ।। प्रद्युम्नस्तच्चमूं भङ्क्त्वा विद्यासामर्थ्यतो हरिम् । सद्यो निरायुधीचक्रे निर्दतमिव दंतिनम् ।। ४८९ ।। यावद्विष्णुर्विषण्णोऽभूत्तावद्वामेतरो भुजः । स्पंदितस्तेन सहसा बलाय च निवेदितः ॥ ४९० ॥ तदैत्य नारदोऽवादी गृह्यतामेष ते सुतः । रुक्मिणीसहितः कृष्ण पर्याप्तं युद्धवार्तया ॥४९१ ॥ कृष्णं ननाम प्रद्युम्नो रामं च चरणान् स्पृशन् । ताभ्यां च सस्वजे गाढं चुंबङ्ग्यामसकृच्छिरः ।। ४९२ ॥ प्रधुम्नस्य पितृभ्यां मिलनम् । ॥ २५०॥ १ प्रतीति कारयितुम् ।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy