________________
त्रिषष्टिशलाकापुरुषचरिते IR४९॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तृणाट्टान्निस्तृणांश्चक्रे कोऽपि कोऽपि जलाशयान् । निर्जलान् कोऽपि ते भानुमश्वेनोपाद्रवत्सुतम् ॥४६८॥ श्रुत्वेति भामा पप्रच्छ क्व नु स ब्राह्मणो हलाः । तद्दास्योऽपि यथावस्थमाचख्युस्तस्य चेष्टितम् ।। ४६९ ।। ततो विषण्णा सामर्षा केशानयनहेतवे । दासीः पटलिकाहस्ताः प्राहिणोद्रुक्मिणी प्रति ।। ४७० ॥ ऊचिरे रुक्मिणी ताश्च केशानर्पय मंक्षु नः । श्रीभामास्वामिनी ह्येवं समादिशति मानिनी ।। ४७१ ।। मायासाधुः स तच्छुत्वा तासामेव हि कुंतलैः । भृत्वा पटलिकां भामासमीपं प्रजिघाय ताः ॥ ४७२ ।। किमेतदिति भामोक्ता दास्य ऊचुर्न वेत्सि किम् । यादृशः स्वामिनि स्वामी परिवारोऽपि तादृशः ।। ४७३ ॥ भामोद्भामा ततः प्रैषीन्नापितान्रुक्मिणीगृहे । तानेवामुंडयत्साधुः शिरस्त्वक्छेदपूर्वकम् ॥ ४७४ ।। आयातान्नापितान्मुंडान् प्रेक्ष्य भामा क्रुधा हरिम् । गत्वाभाषिष्ट रुक्मिण्यास्त्वं केशप्रतिभूरभूः ।। ४७५ ।। केशदानपणः सोऽद्य दाप्यतां मम केशव । उत्थाय स्वयमाहूय मुंडां कारय रुक्मिणीम् ।। ४७६ ।। हसित्वा हरिरप्यूचे त्वमेवासीह मुंडिता । साप्यूचे नर्मणाद्यालं तत्केशानद्य दापय ।। ४७७ ।। कृष्णेन प्रेषितो रामो रुक्मिण्याः सदने ततः । प्रद्युम्न कृष्णरुपं च विचक्रे तत्र विद्यया ।। ४७८ ।। हीणो वलित्वा रामोऽपि पूर्वस्थानं पुनर्ययौ । तत्रापि कृष्णं प्रेक्ष्योचे हास्यं किं प्रस्तुतं त्वया ।। ४७९ ।। केशार्थं तत्र मां प्रेष्य स्वयं गत्वेह चागतः । वधूर्वयं च सहसा हेपिता युगपत्त्वया ।। ४८० ।। १ सख्या आह्वाने हला।
प्रधुम्नस्य मायासाधूभूय मातृवञ्चनम्।
॥२४९॥