________________
अष्टमं पर्व षष्ठः
त्रिषष्टिशलाकापुरुषचरिते IR४८॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
साप्यवोचन्नाद्य किंचिदुद्वेगात् पाचितं मया । सोऽपि पप्रच्छ किं नाम तवोद्वेगस्य कारणम् ।। ४५४ ।। उवाच सापि तनयवियोगे कुलदेवताः । आराधयमियत्कालमहं तत्संगमाशया ।। ४५५ ।। इदानी कुलदेवीनां दातुकामा शिरोबलिम् । ग्रीवायां प्राहरं यावत्तावद्देवीत्यवोचत ।। ४५६ ॥ पुत्रि मा साहसं कार्षीः पुष्पिष्यति यदा तव । अकालेऽप्येष कामन्दस्तदा त्वत्सूनुरेष्यति ।। ४५७ ॥ अयं कुसुमितश्चाद्य न च सूनुः समेति मे । तत्साधो पश्य होरां त्वं कदा मे पुत्रसंगमः ।। ४५८ ॥ सोऽप्यूचे रिक्तहस्तानां न होरा फलदायिनी । रुक्मिण्यपि प्रत्युवाच ब्रूहि तुभ्यं ददामि किम् ।। ४५९ ॥ सोऽप्यवादीत्तपःक्षामकुक्षेः पेयां प्रयच्छ मे । उदयुंक्त च पेयार्थं तद्रव्यान्वेषणेन सा ।। ४६० ।। भूयो बभाषे तां साधुरत्यंतं क्षुधितोऽस्म्यहम् । द्रव्येण येन केनापि पेयां कृत्वा प्रयच्छ मे ।। ४६१ ॥ प्राक्सिद्धैर्मोदकैः साथ पेयां कर्तुं प्रचकमे । तस्य विद्याप्रभावेण ज्वलनः प्राज्वलन्न तु ।। ४६२ ॥ खिन्नां प्रेक्ष्य स तामुचे पेया निष्पद्यते न चेत् । प्रीणयातिक्षुधितं मां तदेभिरपि मोदकैः ॥ ४६३ ।। साप्युचे मोदका ह्येते कृष्णस्यान्यैः सुदुर्जराः । नर्षिहत्यां करिष्यामि दत्त्वैतान् भवते मुने ।। ४६४ ।। सोऽप्यभाषिष्ट तपसा न मे किमपि दुर्जरम् । सा साशंकं ततस्तस्मायेकैकं मोदकं ददौ ।। ४६५ ॥ दत्तान् दत्तान् शीघ्रमेव भुंजानं तं तु मोदकान् । सस्मिता विस्मिता सोचे महर्षे! बलवानसि ।।४६६।। इतस्तथा जपंती तां भामामेत्यावदन्नराः । फलादिरिक्तमारामं चक्रे स्वामिनि कोऽपि ना ।। ४६७ ॥
प्रद्युम्नस्य मायासाधूभूय मातृवञ्चनम् ।
।। २४८॥