________________
त्रिषष्टिशलाकापुरुषचरिते IR४७॥
अष्टमं पर्व | षष्ठः
श्रीअरिष्टनेमिजिनचरितम् ।
रुडुबुडुरुडुबुडु इति मंत्रस्त्वयानघे । पुरतः कुलदेवीनां जप्यो मभोजनावधि ।। ४४१ ।। सा तथा कुर्वती तस्थौ भुंजानो द्विजकश्च सः । सर्वं रसवतीसारं विद्याशक्त्या समापयत् ॥ ४४२ ।। भामातो बिभ्यतीभिः स पयःकरकपाणिभिः । कथंचित्सूपकारीभिः समुत्तिष्ठेत्यभाष्यत ।। ४४३ ।। अहमद्यापि नो तप्तस्तृप्तिर्यत्र भविष्यति । तत्र यास्यामीति वदन् स मायाब्राह्मणो ययौ ।। ४४४ ।। बालसाधुवपुर्भूत्वा ततोऽगाद्रुक्मिणीगृहे । रुक्मिण्या ददृशे दूरात्स नेत्रानंदचंद्रमाः ।। ४४५ ।। तस्याशनार्थं वेश्मांतः प्रविवेश च रुक्मिणी । कृष्णसिंहासने सोऽपि पूर्वन्यस्त उपाविशत् ।। ४४६ ॥ आत्ताशना निर्गता च तथासीनमुदीक्ष्य तम् । बभाषे रुक्मिणी देवी विस्मयस्मेरलोचना ।। ४४७ ॥ कृष्णं वा कृष्णजातं वा विना सिंहासनेऽत्र हि । अन्यं पुमांसमासीनं सहते नहि देवताः ॥ ४४८ ।। स मायासाधुरप्युचे प्रभावात्तपसो मम । न किंचिद्देवताः कर्तुमलंकर्मीणविक्रमाः ।। ४४९ ।। आगात्तर्हि कुतो हेतोरिति पृष्टस्तयाथ सः । ऊचे तपो निराहारं षोडशाब्दी मया कृतम् ।। ४५० ।। मातुः स्तन्यमपि मया न पीतं जन्मतोऽपि हि । तत्पारणार्थमत्रागां देहि किंचिद्यथोचितम् ।। ४५१ ॥ रुक्मिण्युवाच न क्वापि षोडशाब्दं तपः श्रुतम् । श्रुतं चतुर्थादारभ्य वत्सरावधिकं मुने ।। ४५२ ।। सोऽप्यूचे किं तवानेन यद्यस्ति यदि दित्ससि । तद्देहि नो चेद्यास्यामि सत्यभामानिकेतनम् ।। ४५३ ।। १ अलं कर्म कर्तुमित्यलंकर्मीणः खप्रत्ययः । २ यदि किंचिदस्ति तथा च यदि दातुमिच्छसि तदा देहीत्यन्वयः ।
प्रधुम्नस्य मायासाधूभूय मातृवञ्चनम्।
॥ २४७॥