________________
SONG
त्रिषष्टिशलाकापुरुषचरित IR४६॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
पतित्वा पादयोः सोचे क्व यूयं चलिता ननु । प्रद्युम्नोऽप्यब्रवीद्यत्र लप्स्ये भोजनमिच्छया ।। ४२७ ।। सोचे तर्बेहि दास्यामि भामादेव्या निकेतने । सज्जितं सुतविवाहे मोदकादि यथारुचि ॥४२८ ।। जगाम धाम भामाया प्रद्युम्नोऽपि तया सह । तोरणद्वारि तं मुक्त्वा दासी भामांतिकं ययौ ।। ४२९ ।। कासीति भामया पृष्य दास्यूचे सास्मि कुब्जिका । भूयोऽपि भामाभाषिष्ट केनासि सरलीकृता ।। ४३० ।। दास्याख्यद्ब्राह्मणोदंतं भामोचे क्वास्ति स द्विजः । साप्यूचे तोरणद्वारे मया मुक्तोऽस्ति संप्रति ।। ४३१ ।। तमानय महात्मानमित्यादिष्टा च भामया । तं वेगादानयत्तत्र सा दासी कपटद्विजम् ॥ ४३२ ।। स दत्त्वाशिषमासीनो जगदे सत्यभामया । ब्रह्मन् सपल्या रुक्मिण्या मां रुपेणाधिकां कुरु ॥ ४३३ ।। मायाविप्रोऽप्युवाचैवं सुरुपा त्वं हि दृश्यसे । ईदृग्नापरनारीणां रुपं पश्यामि कुत्रचित् ।। ४३४ ।। बभाषे सत्यभामापि भद्र जल्पसि साध्विदम् । तथापि रुपेऽनुपमा विशेषेण कुरष्व माम् ॥ ४३५ ॥ सोऽप्यभाषत यद्येवं विरुपा भव सर्वतः । भवेदूपविशेषो हि वैरुप्ये सति मूलतः ॥ ४३६ ।। किं करोमीति तत्पृष्ट उपादिशदिति द्विजः । शिरो मुंड्य मष्या च लिंप देहमशेषतः ॥ ४३७ ।। जीर्णखंडस्यूतवासा भूत्वा भव ममाग्रतः । यथा लावण्यसौभाग्यश्रियमारोपयामि ते ॥ ४३८ ।। सा तदप्यर्थिनी चक्रे विप्रोऽप्येवमवोचत । बुभुक्षया पीडितोऽहमस्वस्थः किं करोमि तत् ।। ४३९ ॥ भामापि तं भोजयितुं सूपकारान् समादिशत् । विप्रोऽप्येवमुपादिक्षद्भामायाः श्रवणांतिके ॥ ४४० ।।
प्रद्युम्नस्य मायासाधूभूय मातृवञ्चनम् ।
||२४६॥