________________
ॐ
त्रिषष्टिशलाकापुरुषचरिते IR४५॥
अष्टमं पर्व | षष्ठः | सर्गः
श्रीअरिष्ट| नेमिजिनचरितम् ।
कपिभृत्पुरुषो भूत्वा प्रद्युम्नो वनपालकान् । ऊचे फलादि ददतां क्षुधितस्यास्य मत्कपेः ।। ४१४ ॥ अयं भानुकविवाहायारामो रक्ष्यते खलु । न किंचित्तत्त्वया वाच्यमित्युचुर्वनपालकाः ।। ४१५ ॥ प्रलोभ्य भूरिभिर्युम्नस्तान् प्रद्युम्नः प्रविश्य च । कपिनाकारयत्तेनोद्यानं रिक्तं फलादिभिः ।। ४१६ ॥ जात्यवाजिवणिग्भूत्वा ततः सोऽगात्तृणापणे । तत्रापणिभ्योऽयाचिष्ट तॄण्यां स्वहयहेतवे ।। ४१७ ॥ तथैवाददतस्तांस्तु प्रलोभ्य द्रविणेन सः । चकार सर्वमतृणं प्रद्युम्नो निजविद्यया ।। ४१८ ॥ तथैव स्वादु सलिलस्थानान्यसलिलानि सः । पीत्वा चकार वाह्याल्यां वाहं चावाहयत् स्वयम् ।। ४१९ ।। दृष्टश्च भानुकेनाश्वः पृष्टः कस्यैष इत्यथ । प्रद्युम्नोऽपि ममैषोऽश्व इत्याचख्यौ कुतूहली ।। ४२० ॥ भानुकः सादरोऽवोचत्प्रयच्छामुं तुरंगमम् । यत्त्वं याचिष्यसे मूल्यं तत्ते दास्यामि बह्वपि ।। ४२१ ॥ प्रद्युम्नस्तमभाषिष्ट परीक्ष्यादत्स्व वाजिनम् । राजापराधोऽपरथाऽनागसोऽपि भवेन्मम ॥ ४२२ ।। परीक्षितुमथारोहद्भानुकस्तस्य वाजिनम् । वाजं नाट्यता तेन पातितः स महीतले ।। ४२३ ॥ स एडकमथारुढो हस्यमानः पुरीजनैः । वसुदेवसदस्यागात् पार्षद्यानपि हासयन् ॥ ४२४ ॥ प्रद्युम्नोऽपि द्विजीभूय पठन् वेदं कलस्वरम् । प्राविशद्वारिका भ्राम्यन् सर्वत्रापि त्रिकादिषु ॥ ४२५ ।। भामादासीमपश्यच्च कुब्जिकां तां च विद्यया । सरलांगी चकाराशु पथि वेत्रलतामिव ।। ४२६ ।। १ द्रव्यैः । २ तृणसमूहम् । ३ वेगम् । ४ महाजम् ।
SHAHARASHARASHRSHASANS
प्रद्युम्नस्य द्वारिकागमनम्, मायासाधूभूय मातृवञ्चनं च ।
||२४५॥