________________
त्रिषष्टिशलाकापुरुषचरिते IR४४॥
अष्टम पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
संवरोऽपि सुतवधाक्रुद्धस्तं हंतुमागतः । विद्याजनितमायाभिः प्रद्युम्नेन जितश्च सः ।। ४०१ ।। पधुम्नः सानुतापोऽथ संवराय यथातथम् । मूलादारभ्य कनकमालोदंतं शशंस तम् ।। ४०२ ।। तेनापि सानुतापेन प्रद्युम्नः परिपूजितः । तदा च नारद ऋषिः प्रद्युम्नांतिकमाययौ ।। ४०३ ।। प्रज्ञत्या ज्ञापितं तं च प्रद्युम्नः पर्यपूजयत् । अज्ञापयच्च कनकमालावृत्तांतमादितः ।। ४०४ ।। अथ प्रद्युम्नरुक्मिण्योः सीमंधरजिनोदितम् । सर्ववृत्तान्तमाख्याय निजगादेति नारदः ॥ ४०५ ।। आदौ पुत्रस्य वीवाहे केशदानपणः पुरा । सपल्या भामया सार्धमस्ति त्वन्मातुरुद्यतः ॥ ४०६ ॥ भामाया भानुकः सूनुः सांप्रतं परिणेष्यते । त्वन्मात्रा तत्र दातव्याः स्वकेशाः पणहारिताः ।। ४०७ ॥ केशदानविप्लवेन त्वद्वियोगरुजा च सा । सत्यपि त्वयि तनये मरिष्यत्येव रुक्मिणी ॥४०८ ।। सनारदोऽपि प्रद्युम्नस्ततः प्रज्ञप्तिनिर्मितम् । विमानमारुह्य ययावाश्वेव द्वारकापुरीम् ।।४०९ ॥ आख्यच्च नारदः सेयं त्वत्पितुर्वारकापुरी । यां विधाय स्वयं रत्नैर्धनदोऽपूरयद्धनैः ॥ ४१० ॥ प्रद्युम्नोऽप्यभ्यधात्तिष्ठेर्विमाने त्वमिहैव हि । द्वारकायां चमत्कारं यावत् किंचित् करोम्यहम् ।। ४११ ॥ आमेति नारदेनोक्ते तत्रस्थां कृष्णनंदनः । सत्यभामासूतोद्वाहजन्ययात्रामुदैक्षत ।। ४१२ ॥ हृत्वा कन्यां तदुद्वाह्याममुंचन्नारदांतिके । मा भैषीः कृष्णपुत्रोऽसावित्यूचे नारदोऽपि ताम् ।। ४१३ ॥ १निश्चितः ।
प्रद्युम्नस्य द्वारिका
गमनम् ।
॥ २४४॥