________________
त्रिषष्टिशलाकापुरुषचरिते IR४३॥
अष्टमं पर्व षष्ठः सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
साप्यूचे नासि मे जातः किं तु त्वां प्राप संवरः । अग्निज्वालपुरादायन्मार्गे केनचिदुज्झितम् ।। ३८८ ॥ ममार्पितो वर्धनाय त्वं कस्यापि हि नंदनः । निःशंकं मुंश्व तद्भोगान्मया सह यदृच्छया ।।३८९ ।। स्त्रीग्रहे पतितोऽस्मीति चितयन् सोऽब्रवीत्ततः । संवरात्त्वत्सुतेभ्यश्च लप्स्येऽहं जीवितं कथम् ।।३९० ।। सोचे सुभग मा भैषीर्महाविद्ये उभे अपि । गृहाण गौरीप्रज्ञप्त्यौ भवाजय्यो जगत्यपि ॥३९१ ।। न ह्यकृत्यं करिष्यामीत्यंतर्निश्चित्य कृष्णसूः । ऊचे प्रयच्छ मे विद्ये करिष्ये त्वद्वचस्ततः ।।३९२ ॥ प्रज्ञप्तिगौयौँ सादत्त महाविद्ये स्मरातुरा । असाधयच्च प्रद्युम्नः पुण्योदयवशाद्रुतम् ।। ३९३ ॥ तया चाभ्यर्थितो रतुं व्याहार्षीत्कृष्णनंदनः । मम संवर्धनात्पूर्व केवलैव जनन्यभूः ।।३९४ ॥ आचार्या तु भवस्यद्य विद्यादानेन मेऽनघे । न वाच्यस्तत्त्वया किंचिदत्राहं पापकर्मणि ॥३९५ ।। तामेवमुक्त्वा मुक्त्वा च प्रद्युम्नोऽथ पुराबहिः । गत्वा कालांबुकावापीतटे चास्थित दुर्मनाः ।। ३९६ ।। नखैः कनकमाला स्वं दीर्वा कलकलं व्यधात् । किमेतदिति पृच्छंतस्तत्पुत्राश्च समाययुः ।। ३९७ ।। युष्मत्पितुः पुत्रकेणोद्यौवनेन दुरात्मना । स्वैरं विदारितास्म्येषा माजरिणेव पिंडदा ।। ३९८ ।। ततस्ते कुपिताः सर्वे गत्वा कालांबुकातटे । पाप पापेति जल्पतः प्रद्युम्ने प्राहरन् द्रुतम् ।। ३९९ ॥ विद्याद्वयोर्जितद्युम्नः प्रद्युम्नो लीलयापि तान् । जघान संवरसुतान् शंबरानिव केसरी ।। ४०० ॥ १ घुम्नं बलम् । २ शंबरो मृगविशेषः ।
प्रधुम्नेन |विद्याप्राप्तिः ।
||२४३॥