________________
त्रिषष्टिशलाकापुरुषचरिते IR४२॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
प्रधुम्नेन
अस्मन्मातूकुलमिदं त्वयालंकुर्वता हरे । वर्तामहे विश्वतोऽपि विशेषेण महौजसः ।। ३७५ ।। सत्कृत्य विविधालापैः कुंतीकुंतीसुतानपि । कृष्णो नियोजयामास प्रासादेषु पृथक् पृथक् ।। ३७६ ॥ लक्ष्मीवतीं वेगवतीं सुभद्रां विजयां रतिम् । ददुः क्रमात् पांडवेभ्यो दशार्हा निजकन्यकाः ।। ३७७ ।। यदुभिः पूज्यमानास्ते कृष्णेन च बलेन च । युधिष्ठिराद्याः पंचापि सुखं तत्रावतस्थिरे ।। ३७८ ।। इतश्चाधिगतकलाकलापं प्राप्तयौवनम् । प्रद्युम्नं प्रेक्ष्य कनकमालाभून्मदनातुरा ।। ३७९ ॥ दध्यौ च सा न हीदृक्षः खेचरेष्वस्ति कश्चन । मन्ये देवोऽपि नेदृक्षः का कथा भूमिचारिषु ॥ ३८० ॥ तत्स्वयंवर्धितस्यास्य तरोरिव फलं ह्यदः । स्वयंभोगोऽन्यथा नूनं जन्मापि हि मुधा मम ।। ३८१ ॥ विमृश्यैवं सा जगाद प्रद्युम्नं कलया गिरा । इहैवास्त्युत्तरश्रेण्यां नाम्ना नलपुरं पुरम् ।। ३८२ ॥ गौरीवंशोद्भवस्तत्र निषधो नाम भूपतिः । तस्याहं राजसिंहस्य पुत्री पुत्रस्तु नैषधिः ।।३८३ ।। गौरी नाम महाविद्या दत्ता पित्रा मम स्वयम् । दत्वा प्रज्ञप्तिविद्यां च मामुपायत संवरः ।। ३८४ ।। संवरो मयि रक्तस्तु नान्यां युवतिमिच्छति । सिद्धविद्याद्वयाया मे बलात्तस्य तृणं जगत् ॥३८५ ।। एवंविधानुसरक्ताहं त्वां वृणोमि भजस्व माम् । मा स्म प्रणयभंगं मे कार्षीरज्ञानतोऽपि हि ।। ३८६ ॥ प्रद्युम्नोऽप्यब्रवीच्छांतं पापं किंचिद्ब्रुवीष्यदः । माता त्वमसि पुत्रोऽहं पापायेदं द्वयोरपि ।। ३८७ ।। १ मधुरया ।
। विद्या
| प्राप्तिः ।
||२४२॥