________________
त्रिषष्टिशलाकापुरुषचरिते I२४१॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
दुर्योधनेन तवृद्धास्तोषिता विनयादिना । जिताश्च पांडवा द्यूते राज्यं तर्षात् पणीकृतम् ।। २६२ ।। पणीकृतां द्रौपदी च जित्वा दुर्योधनोऽग्रहीत् । क्रोधरक्तेक्षणाद्रीमाद्बिभ्यत्तां पुनरार्पयत् ।। २६३ ॥ कृत्वावमानना ते च धार्तराष्ट्रैः स्वराष्ट्रतः । निर्वासिताः पांडुसुता वनवासमशिश्रियन् ।।३६४ ॥ वनाद्वनं चिरं भ्रांत्वा दशार्हानुजया तया । कुंत्या द्वारवती नीतास्ते पंचापि हि पांडवाः ।। ३६५ ।। दिव्यास्त्रयोधिनः सर्वे विद्याभुजबलोर्जिताः । ययुः समुद्रविजयस्यौकः प्रथमतोऽपि ते ॥३६६ ॥ समुद्रविजयस्तत्राक्षोभ्याद्या भ्रातरश्च ते । भगिनी भागिनेयांश्च स्नेहादानचुरंजसा ।। ३६७ ।। ऊचुर्दशार्दास्तां तेभ्यो दायादेभ्यः समागता । दिष्ट्या दृष्टसि जीवंती सापत्यापि हि हे स्वसः ।। ३६८ ।। कुंत्यप्यूचे सपुत्रापि जीविताहं तदैव हि । मया यदैव जीवंतः श्रुता यूयं ससूनवः ।। ३६९ ।। लोकोत्तरं चरित्रं च वत्सयो रामकृष्णयोः । श्रृण्वती मुदितात्रांगां तद्दर्शनसमुत्सुका ।। ३७०॥ सानुज्ञाता भ्रातृभिस्तैः सपुत्रागात्सभां हरेः । तामभ्युत्तस्थतू रामकृष्णौ भक्त्या च नेमतुः ।। ३७१ ।। रामकृष्णौ पांडवाश्च यथापूर्व परस्परम् । कृताश्लेषनमस्कारा यथोचितमुपाविशन् ।।३७२ ।। ऊचे कृष्णः साधु यूयमिहायाताः स्ववेश्मनि । युष्माकं च यदूनां च लक्ष्मीः साधारणी खलु ।। ३७३ ॥ ऊचे युधिष्ठिरस्तेषां सदा दास्यः श्रियो हरे । येषामभिमतोऽसि त्वं किं पुनर्ये मतास्तव ॥३७४ ॥ १ लोमात् । २ कौरवेभ्यः । ३ त्राऽऽगां ।
पाण्डवानां वनवासो द्वारिकागमनं च ।
|| २४१॥