________________
अष्टमं पर्व
त्रिषष्टिशलाकापुरुषचरिते IR४०॥
षष्ठः
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
बध्यमानकचामेकेनान्येनांके धृतांघ्रिकाम् । गणिकां देवदत्ताख्यां तत्रायातां ददर्श सा ॥३४९ ॥
॥युग्मम् ॥ सा त्वसंपूर्णभोगेच्छा निदानमकरोदिदम् । एषेव पंचपतिका भूयासं तपसामुना ॥३५०॥ स्वांशौचपरा चासीदभ्युदंती पदे पदे । आर्याभिर्वार्यमाणा च चेतस्येवमचिंतयत् ।।३५१ ।। आर्यिकाणां गौरविता पुराभूवं गृहे स्थिता । भिक्षाचरीमिदानी मां तर्जयति यथा तथा ।।३५२ ।। किममूभिरिति ध्यात्वा विभिन्नेऽस्थात्प्रतिश्रये । एकाकिनी स्वैरिणी सा चिरं व्रतमपालयत् ।। ३५३ ।। संलेखनामष्टमासान् कृत्वानालोच्य सा मृता । नवपल्योपमायुष्का सौधर्मे देव्यजायत ।। ३५४ ।। च्युत्वा चाभूद्रौपदीयं निदानात्प्राक्तनादमी । अमुष्याः पतयः पंच संजाताः कोऽत्र विस्मयः ।। ३५५ ॥ इत्युक्ते मुनिना व्योम्नि साधु साध्विति गीरभूत् । साध्वमी पतयोऽभूवन्निति कृष्णादयो जगुः ।। ३५६ ॥ तैरेव राजस्वजनैः स्वयंवरसमागतैः । कृतोत्सवं पर्यणैषुद्रौपदीमथ पांडवाः ।। ३५७ ॥ ततः पांडुर्दशाहाँस्तान् कृष्णमन्यांश्च भूमुजः । विवाहार्थमिहानीतान् गौरवात् स्वपुरेऽनयत् ।। ३५८ ॥ अर्चित्वा सुचिरं तत्र दशार्हान् सीरिशामिणौ । आपृच्छमानान् व्यसृजभूपानन्यांश्च पांडुराट् ॥ ३५९ ।। पांडुर्युधिष्ठिरायाथ दत्वा राज्यं व्यपद्यत । अन्वियाय च तं मद्री कुंत्यै दत्वा सुतद्वयम् ।। ३६० ॥ ततश्चास्तंगते पांडौ पांडवांस्तान् समत्सराः । न मेनिरे धार्तराष्ट्रा राष्ट्रलुब्धा दुराशयाः ॥३६१ ॥
द्रौपदीपूर्वभवः ।
॥ २४०॥