________________
त्रिषष्टिशलाकापुरुषचरिते IR३९॥
अष्टमं पर्व षष्ठः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
विरक्तः सागरस्ते हि तत्तुभ्यमपरं पतिम् । अन्विष्याहं करिष्यामि पुत्रि मा खेदमुद्वह ।। ३३५ ॥ सोऽथान्येधुर्गवाक्षस्थोऽपश्यत् कर्परधारिणम् । जीर्णखंडांबरं भिक्षायाचकं मक्षिकावृतम् ।।३३६ ॥ आहूय श्रेष्ठिना सोऽपि त्याजितः कर्परादिकम् । स्नपयित्वा भोजितश्च चर्चितश्चंदनेन च ।।३३७ ।। ऊचे च तं मया दत्ता पुत्रीयं सुकुमारिका । भोजनादिषु निश्चितः सुखं तिष्ठ सहानया ।। ३३८ ।। इत्युक्तः प्रययौ वासगृहं सह तयाथ सः । सुप्तश्च तद्वपुःस्पर्शादग्निस्पृष्ट इवाभवत् ।। ३३९ ।। उत्थाय च निजं वेषमादाय स पलायितः । विषण्णा सा तथैवास्थाद् दृष्ट्वा पित्रेत्यभाष्यत ।। ३४० ।। वत्से प्राक्कर्मणामेष उदयोऽात्र कारणम् । संतुष्टा तिष्ठ तद्दानं ददती मम वेश्मनि ।।३४१ ।। तथैव सा ददौ दानं शान्ता र्धमरता सती । कदाचिदागुस्तद्वेश्मन्यार्या गोपालिका इति ।। ३४२ ॥ सा प्रत्यलाभयत्ताश्च शुद्धैः पानाशनाभिः । तत्पार्श्वे धर्ममाकर्ण्य प्रबुद्धा व्रतमाददे ।।३४३ ।। तुर्यषष्ठाष्टमादिनी सा तपांसि प्रकुर्वती । गोपालिकाभिरार्याभिः सह व्यहरतान्वहम् ॥३४४ ।। आर्यास्ताः सा कदाप्यूचे पश्यंती रविमंडलम् । सुभूमिभागोद्यानस्थातापनां विदधाम्यहम् ।। ३४५ ।। ता अप्यूचुः स्ववसतेर्बहिर्न खलु कल्पते । आतापना व्रतिनीनामाम्नातमिदमागमे ।। ३४६ ।। तदश्रुत्वेव सुभूमिभागोद्यानेऽभ्युपेत्य सा । आतापनामुपाक्रस्त सूर्ये निहितलोचना ।। ३४७ ।। अथैककामुकेनांके स्थापितापरेण तु । धृतातपत्रामन्येन वीज्यमानां सुखानिलम् ।। ३४८ ॥
द्रौपदीपूर्वभवः ।
॥ २३९॥