________________
त्रिषष्टिशलाकापुरुषचरिते
IR३८॥
अष्टमं पद षष्ठः |सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
द्रौपदी
ऊचे सागरदत्तोऽपि सुता प्राणप्रिया मम । न स्थातुमहमीशोऽस्मि मनागप्यनया विना ।। ३२२ ॥ मम चेद्गृहजामाता त्वत्सुतः सागरो भवेत् । तदा स्वपुत्रों यच्छामि तस्मै सह धनादिभिः ।। ३२३ ।। आलोचयिष्यामीत्युक्त्वा जिनदत्तो गृहं ययौ । सागरस्य समाख्याच्च मौनेनास्थाच्च सागरः ।। ३२४ ।। अनिषिद्ध ह्यनुमतमिति न्यायेन तत्पिता । मेने सागरदत्ताय गृहजामातरं सुतम् ।। ३२५ ।। तया कुमार्या ताभ्यां तु सागरः परिणायितः । तया समं वासगृहे गत्वा तल्पं च शिश्रिये ।। ३२६ ॥ पूर्वकर्मवशात्तस्याः स्पर्शनांगारवभृशम् । दह्यमानः क्षणं तस्थौ कथंचित्तत्र सागरः ।। ३२७ ॥ निद्रायमाणां तां मुक्त्वा नंष्टवा स स्वगृहं ययौ । अपश्यंती पतिं सापि निद्राच्छेदेऽरुदभृशम् ॥३२८ ।।। वधूवरस्य दशनशौचहेतोः सुभद्रया । चेट्यादिष्टा प्रगेऽद्राक्षीद्रुदंती तां धवोज्झिताम् ।। ३२९ ।। सा गत्वाख्यत्सुभद्रायै सुभद्रा श्रेष्ठिने पुनः । श्रेष्ठी तु जिनदत्तायोपालंभं प्रददौ स्वयम् ।। ३३० ।। आहूय जिनदत्तोऽपि रहः स्वसुतमब्रवीत् । त्वया न युक्तं विदधे त्यजता सज्जनात्मजाम् ॥ ३३१ ॥ इदानीमपि तद्गच्छ वत्सोपसुकुमारिकाम् । प्रतिपन्नं मया हीदृक् सज्जानानां पुरस्तदा ।।३३२ ।। व्याहरत्सागरोऽप्येवं वरमग्नौ विशाम्यहम् । यास्यामि न पुनस्तात जातूपसुकुमारिकाम् ।।३३३ ।। एतत्सागरदत्तोऽपि तत्कुड्यांतरितोऽशृणोत् । निराशश्च ययौ गेहमूचे च सुकुमारिकाम् ॥ ३३४ ।। १ विचारयिष्यामि । २ सुकुमारिकासमीपम् ।
पूर्वभवः ।
॥ २३८॥