________________
त्रिपाटशलाकापुरुषचरिते IR३७॥
अष्टम पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
ततः साऽतिशयज्ञानापयागन गुरुजगा । नागाश्रया दुश्चारत श्रमणानामशेषतः ।।३०९ ।। ततः सकोपा वतिनो वतिन्यश्चैत्य तत्र ते । सोमदेवप्रभृतीनां लोकानामाचचक्षिरे ।। ३१० ।। सोमाद्यैः सापि नागश्रीर्विप्रैर्निष्कासिता गृहात् । निर्भय॑माना लोकैश्च दुःखं पर्याट सर्वतः ॥३११ ।। कासश्वासज्वरकुष्टादिभी रोगैः सुदारुणैः । क्रांता षोडशभिः सापन्नारकत्वमिहापि हि ।।३१२ ।। क्षुधिता तृषिता जीर्णखंडवासा निराश्रया । पर्यटंती क्रमान्मृत्वा सा षष्ठं नरकं ययौ ।। ३१३ ॥ उद्धृत्य नरकान्म्लेच्छेऽप्यजायत विपद्य च । सप्तमं नरकं प्राप तदुद्धृता झषेष्वभूत् ।।३१४ ।। सप्तमं नरकं भूयो गत्वा म्लेच्छेष्वजायत । एवं द्विद्धिर्ययौ पापा सर्वेषु नरकेषु सा ।। ३१५ ।। ततश्च पृथ्वीकायादिषूत्पद्यानेकशश्च सा । अकामनिर्जरायोगाद्दुःकर्माशातयद्बहु ।। ३१६ ॥ ततश्चात्रैव चंपायां नाम्नाभूत्सुकुमारिका । श्रेष्ठसागरदत्तस्य सुभद्राकुक्षिजा सुता ।।३१७ ।। तत्रैवासीज्जिनदत्तः सार्थवाहो धनाधिपः । भद्रा च गेहिनी तस्य सागरो नाम तत्सुतः ॥३१८ ।। उपसागरदत्तौको जिनदत्तोऽन्यदा वजन् । उद्यौवनामपश्यत्तां कुमारी सुकुमारिकाम् ॥३१९ ।। अधिसौधं कंदुकेन रममाणामुदीक्ष्य ताम् । योग्येयं मत्सुतस्येति स ध्यायन् स्वगृहं ययौ ॥ ३२०॥ ततः सबंधुरभ्येत्य जिनदत्तः स्वसूनवे । ययाचे सागरदत्तात्कुमारी सुकुमारिकाम् ।। ३२१ ॥ १ मत्स्येषु । २ सागरदत्तगृहस्य समीपे ।
द्रौपदीपूर्वभवः।
॥ २३७॥