________________
त्रिषष्टिशलाकापुरुषचरिते I२३६॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
संस्कृतं स्वादुभिर्द्रव्यैरप्येतद्विविधैर्मया । कट्वेवेति विमृशंती विषण्णा तदगोपयत् ।। २९५ ॥ तद्वर्जमपरैर्भोज्यैर्भोजयामास सा तदा । सकुटुंबानपि पतिदेवरान् गृहमागतान् ।। २९६ ।। तदा सुभूमिभागाख्य उद्याने समवासरत् । श्रीधर्मघोष आचार्यो ज्ञानवान् सपरिच्छदः ।। २९७ ॥ शिष्यो धर्मरुचिस्तस्य मासक्षपणपारणे । सोमदेवादिषु गतेष्वागान्नागश्रियो गृहे ।। २९८ ।। एषोऽपि तोषितोऽनेन भवत्विति विमृश्य सा । अलाबूव्यंजनं तस्मै नागश्रीर्मुनये ददौ ॥ २९९ ।। सोऽप्यपूर्व मया द्रव्यं लब्धमित्यभिचिंतयन् । गत्वा दर्शयितुं पात्रं गुरुहस्ते समार्पयत् ॥३०० ।। गुरुस्तद्गंधमाघ्रायोवाचेदं भोक्ष्यसे यदि । तदा विपत्स्यसे वत्स तत्परिष्ठापयाश्विदम् ।। ३०१ ।। सम्यग्ज्ञात्वापरं पिंडं गृहीत्वा पारयेरिति । तेनोक्तः स बहिर्गत्वा शुद्धं स्थंडिलमासदत् ।। ३०२ ।। तत्र पात्रात्तुंबरसबिंदुरेकोऽपतत् स्वयम् । म्रियमाणा अपश्यच्च तत्र लग्नाः पिपीलिकाः ।। ३०३ ॥ दध्यौ च बिंदुनाप्यस्य म्रियतेऽनेकजंतवः । स्यात्परिष्ठापितेऽस्मिस्तु कियतां प्राणिनां मृतिः ॥३०४ ।। वरमेको विपन्नोऽहं न पुनः प्राणिराशयः । निश्चित्येति स तं तुंबं स्वयमादत् समाहितः ।।३०५ ।। विधायाराधनां सम्यक् स समाधिपरायणः । मृत्वा सर्वार्थसिद्धेऽभूदहमिंद्रः सुरोत्तमः ।। ३०६ ।। इतश्च ते धर्मघोषाचार्यो धर्मरुचेः कुतः । विलंबोऽभूतिति ज्ञातुमादिक्षन्नरान्मुनीन् ।। ३०७ ।। तैर्बहिः स मृतो दृष्टस्तद्रजोहरणादि च । आदायाख्यायि गत्वा च गुरवे गुरुखेदिभिः ।। ३०८ ॥
द्रौपदीपूर्वभवः ।
॥२३६॥