________________
त्रिषष्टिशलाकापुरुषचरिते IR३५॥
अष्टम पर्व षष्ठः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अथ स्नाता शुचिवेषा माल्यालंकारधारिणी । द्रौपद्यहँतमर्चित्वा सखीभिः परिवारिता ।। २८२ ॥ रुपेणामरकन्याभागात्स्वयंवरमंडपम् । सामानिकैरिव सुरैः कृष्णादिभिरलंकृतम् ।।२८३ ॥ तत्र सख्या नामग्राहं दर्श्यमानेषु राजसु । पश्यंती द्रुपदसुता प्रययौ यत्र पांडवाः ।। २८४ ॥ सा सानुरागा चिक्षेप स्वयंवरणमालिकाम् । पंचानामपि कंठेषु युगपत्पांडुजन्मनाम् ।। २८५ ।। किमेतदिति साश्चर्यं तत्राभूद्राजमंडलम् । यावत्तावच्चारणर्षिस्तत्र कश्चित् समाययौ ।। २८६ ॥ द्रौपद्याः पंच भर्तारः किं नु स्युरिति राजभिः । कृष्णादिभिः सोऽनुयुक्तः समाचख्याविदं मुनिः ।। २८७ ।। || इयं हि पंचपतिका प्राग्भवार्जितकर्मणा । भविष्यति किमाश्चर्यं कर्मणां विषमा गतिः ॥२८८ ।। तथा ह्यत्रैव चंपायां पुरि विप्रास्त्रयोऽभवन् । सोमदेवः सोमभूतिः सोमदत्तश्च सोदराः ।। २८९ ॥ तेषां धान्यधनाढ्यानामासन पत्न्यः क्रमादिमाः । नागश्रीरथ भूतश्रीर्यक्षश्रीश्चेति नामतः ।।२९० ॥ मिथः स्निग्धाश्च तेऽन्येधुर्व्यवस्थामिति चक्रिरे । वारवारेण भोक्तव्यं सर्वैरेकैकवेश्मनि ।।२९१ ॥ तथैव कुर्वतां तेषां सोमदेवगृहेऽन्यदा । भोजनावसरे प्राप्ते नागश्रीः प्रेगुणं व्यधात् ।। २९२ ।। तया विविधभोज्यानि पचंत्या विविधं तदा । अजानत्या कंट्वलाबु विपच्य व्यंजनीकृतम् ।। २९३ ।। एतत्कीदृग्जातमिति ज्ञातुमास्वादितं तया । अभोज्यमिति चाज्ञायि थूत्कृतं च तदैव हि ॥ २९४ ।। १ पृष्टः । २ प्रगुणं बहुप्रकारेण सज्जम् । ३ कटु च तत् अलाबु तुंबिकाफलम् ।
द्रौपदीपूर्वभवः ।
||२३५॥