________________
त्रिषष्टिशलाकापुरुषचरिते IR३४॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
धृतराष्ट्र: पर्यणैषीदष्टौ सुबलजन्मनः । गंधारराजशकुनेर्गांधार्याद्याः सहोदराः ।। २७० ॥ दुर्योधनादयस्तासु शतं संजज्ञिरे सुताः । पांडोर्युधिष्ठिरभीमार्जुनाः कुंत्यास्तु नंदनाः ।। २७१ ॥ पांडोः पल्यां द्वितीयायां शल्यस्वसरि नंदनौ । मद्रयामभूतां नकुलसहदेवौ महाभुजौ ॥ २७२ ।। ते पांडुपुत्राः पंचापि शूराः पंचानना इव । खेचराणामप्यजय्या विद्याभुजबलोर्जिताः ।। २७३ ।। अनुज्येष्ठं विनीतास्ते दुर्नीतिमसहिष्णवः । अचित्रीयंत पंचापि लोके लोकोत्तरैर्गुणैः ।। २७४ ।। अन्येद्युः कांपील्यपुराद्रुपदस्य महीपतेः । आगत्य दूतो नत्वा च पांडुराजमदोऽवदत् ।। २७५ ।। सुता द्रुपदराजस्य धृष्टम्नस्य चानुजा । चुलनीकुक्षिजातास्ति द्रौपदी नाम कन्यका ।। २७६ ।। तस्याः स्वयंवरे सर्वे दशार्हाः सीरिशाङ्गिणौ । दमदंतशिशुपालौ रुक्मी कर्णः सुयोधनः ।। २७७ ।। अपरेऽपि हि राजानः कुमाराश्च महौजसः । राजाहूताः प्रेष्य दूतान् गच्छन्तः संति संप्रति ।। २७८ ॥
॥युग्मम् ॥ एभिर्देवकुमाराभैः कुमारैः पंचभिः सह । तत्रागत्यालंकुरुष्व तं स्वयंवरमंडपम् ।। २७९ ।। तैः सुतैः पंचभिर्जत्रैर्युक्तो बाणैरिव स्मरः । पांडुस्तदागात् कांपील्यं राजानोऽन्येऽपि चाययुः ॥२८०॥ द्रुपदेनार्चितास्तत्र प्रत्येकमपि पार्थिवाः । स्वयंवरसदोऽध्यस्थुरन्तरिक्षमिव ग्रहाः ।। २८१ ॥ १ शकुनिगंधारराजस्याभिधानम् । २ जयनशीलैः ।
| द्रौपदीस्वयंवरः ।
॥२३४॥