________________
त्रिषष्टिशलाकापुरुषचरिते IR३१॥
अष्टमं पर्व षष्ठः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
तत्स्पर्शेन तदंडं तु वर्णगंधांतरं गतम् । मात्रा स्वमित्यजानंत्या घटिकाषोडशोज्झितम् ।। २३१ ।। ततो वृष्टाब्दतोयेन स्वभावस्थं तदंडकम् । दृष्ट्वा संगोपितं मात्रा कालेनाभून्मयूरकः ।। २३२ ।। भूयो लक्ष्मीवती तत्रायाता तं केकिबालकम् । दृष्ट्वातिरम्यं जग्राह रुदंत्यामपि मातरि ॥२३३ ॥ स्वगृहे पंजरे न्यस्य प्रीणाति पानभोजनैः । तं तथा साशिषन्नृत्यं यथा चारु ननर्त सः ॥२३४ ॥ तन्माता तु मयूरी सा रसंती विरसस्वरम् । न मुमोच प्रदेशं तं पुत्रस्नेहनियंत्रिता ।। २३५ ।। ततस्तां लोक इत्यूचे कौतुकं ते न पूर्यते । इयं वराकी म्रियते मयूरी मुंच तत्सुतम् ।। २३६ ॥ तद्गिरा सापि सकृपामुंचत् षोडशाब्दिकम् । उद्यौवनं तत्र नीत्वा यतः स्थानादुपाददे ॥२३७ ।। बद्धं तेन प्रमादेन ब्राह्मण्या षोडशाब्दिकम् । कर्म स्वपुत्रविरहवेदनीयं महत्तरम् ।। २३८ ।। अन्येधुर्दर्पणे तस्यां पश्यंत्यां स्वं विभूषितम् । मुनिः समाधिगुप्ताख्यो भिक्षार्थं प्राविशद्गृहे ।। २३९ ॥ भिक्षामस्मै प्रदेहीति तामूचे तत्पतिर्द्विजः । आहूतः केनचित्पुंसा तदैव स बहिर्ययौ ॥२४० ॥ तया थुक्कृतिकुर्वत्या जल्पित्वा परुषाक्षरम् । निर्वासितः स महर्षिः द्वारं च पिहितं द्रुतम् ।। २४१ ।। जुगुप्साकर्मणा तेन सप्तमेऽहनि साभवत् । सर्वांगीणगलत्कुष्टा विरक्ताग्नौ विवेश च ।। २४२ ।। मृत्वाऽत्रैवाभवद्ग्रामे गर्दभी रजकस्य सा । भूयोऽपि मृत्वा तत्रैव ग्रामेऽभूद्गर्तसूकरी ।। २४३ ।। १ सेवितम् । २ शासक् अनुशिष्टौ अघतनी रुपम् । ३ कूजती । ४ स्वदेहम् ।
रुक्मिणीपूर्वभवः ।
॥ २३१॥