________________
त्रिषष्टिशलाकापुरुषचरिते IR३२॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
सापि मृत्वा शुन्यभवद्दग्धा सापि दवाग्निना । भावभेदेन मायुर्बद्ध्वा तत्र व्यपद्यत ।।२४४ ॥ पुरस्य भृगुकच्छस्य समीपे नर्मदातटे । दुर्गंधा दुर्भगा काणाभिधाभूद्धीवरात्मजा ।। २४५ ॥ मुक्ता पितृभ्यां तद्गंधासहाभ्यां नर्मदातटे । उद्यौवना जनं नावोत्तारयामास सानिशम् ।। २४६ ॥ दैवात्समाधिगुप्तर्षिः शीतौ तत्र चाययौ । कायोत्सर्गेण निश्यस्थान्निष्कंपः सानुमानिव ।। २४७ ॥ महात्मैष निशां सर्वां कथं शीतं सहिष्यते । विमृश्येत्याचित्ता सा तं तृणैः प्रावृणोन्मुनिम् ।। २४८ ।। व्यतीतायां विभावर्यां मुनिवर्यं ननाम सा । भद्रिकेत्यादिशद्धर्मं तस्यै सोऽपि महामुनिः ।। २४९ ।। एष क्वापि मया दृष्ट इति ध्यात्वा चिरं तया । पृष्टः स मुनिराचख्यौ तस्यास्तान्प्राकृतान् भवान् ॥२५० ॥ भूयोऽप्यूचे महर्षिः स कृतसाधुजुगुप्सया । इह जातासि दुर्गंधा सर्व कर्मानुसारि हि ।। २५१ ।। सा जातजातिस्मरणा जुगुप्सां प्राग्भवे कृताम् । तं मुनि क्षामयामास गल्ती स्वं मुहुर्मुहुः ॥२५२ ॥ साभूच्च श्राविका तेन मुनिना च कृपालुना । धर्मश्रीनामधेयाया आर्यिकायाः समर्पिता ।। २५३ ॥ सहैव विहरती सा ग्रामे क्वापि प्रयातया । धर्मश्रिया नायलस्य श्रावकस्य समर्पिता ॥२५४ ॥ एकांतरोपवासस्था जिनपूजरता सदा । अनैषीद्वादशाब्दानि सा स्थिता नायलाश्रये ॥२५५ ॥ सा कृतानशना मृत्वाच्युतेन्द्रस्य महिष्यभूत् । पंचपंचाशत्पल्यायुः प्रच्युत्याभूत्तु रुक्मिणी ।। २५६ ॥ १ नायलनाम्नः ।
रुक्मिणीपूर्वभवः ।
॥ २३२॥