________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२३० ॥
तौ पाते तपोऽत्युग्रं सहस्रान् शरदां बहून् । द्वादशांगधरौ साधुवैयावृत्त्यकरौ सदा ।। २१८ ।। विधायानशनं प्रांते विहितालोचनावुभौ । मृत्वाभूतां महाशुक्रे तौ सामानिकनाकिनौ ।। २१९ ।। कनकप्रभराजोऽपि क्षुत्तृषादिभिरर्दितः । समासहस्रत्रितयं क्षपयित्वा व्यपद्यत ॥ २२० ॥ स नामतो धूमकेतुर्ज्योतिष्केषु सुरोऽभवत् । ज्ञात्वावधेः पूर्ववैरं मधुजीवं ममार्ग च ।। २२१ ।। मधुं महर्द्धिदेवत्वादपश्यन्नैव सोऽमरः । च्युत्वा प्राप्य च मर्त्यत्वं तापसः समजायत ।। २२२ ।। कृत्वा बालतो 'मृत्वा सोऽथ वैमानिकोऽभवत् । मधुं महर्द्धिं तत्रापि न ह्यमुं द्रष्टुमीश्वरः ।। २२३ ॥ च्युत्वा ततोऽपि संसारं भ्रांत्वा कर्मवशात् पुनः । धूमकेतुरिति नाम्ना ज्योतिष्केषु सुरोऽभवत् ।। २२४ ॥ अत्रांतरे मधुजीवो महाशुक्रात्परिच्युतः । रुक्मिण्या वासुदेवस्य महिष्या उदरेऽभवत् ॥ २२५ ॥ धूमकेतुः पूर्ववैराज्जातमात्रं तमर्भकम् । जह्रे जिघांसुश्चाक्षैप्सीदुष्टष्टंकशिलोपरि ।। २२६ ।। स्वप्रभावादक्षतांगः संवरेणाददे च सः । रुक्मिण्याः षोडशाब्दांते भविता तस्य संगमः ॥ २२७ ॥ एवं वियोगः पुत्रेण रुक्मिण्याः केन कर्मणा । इति पृष्टो नारदेन प्रभुः सीमन्धरोऽवदत् ॥ २२८ ॥ जंबुद्वीपस्य भरतक्षेत्रे मगधमंडले । लक्ष्मीग्रामाभिधे ग्रामे सोमदेवोऽभवद्विजः ॥ २२९ ॥ तस्य लक्ष्मीवती भार्या कदाप्युपवने गता । दृष्ट्वास्पृशन्मयूरांडं कुंकुमाक्तेन पाणिना ।। २३० ।। १ मार्गण - अन्वेषणे परोक्षरुपम् ।
अष्टमं पर्व
षष्ठः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
प्रद्युम्न - पूर्वभवः ।
॥ २३० ॥