________________
त्रिषष्टिशलाकापुरुषचरिते IR२९॥
अष्टमं पर्व | षष्ठः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
प्रधुम्न
मधुं प्रणम्य चंद्राभा भूयोऽप्यंतःपुरं ययो । तदैवादित्सति मधुः कामार्तस्तां बलादपि ।। २०५ ।। तदा निषिद्धोऽमात्येन ययौ मधुनृपोऽग्रतः । भीमं पल्लीपतिं जित्वा निवृत्तस्तत्र चाययौ ।। २०६ ।। कनकप्रभराजेन भूयोऽपि मधुरर्चितः । उवाच प्राभृतैस्तेऽलं चंद्राभैव ममार्ण्यताम् ।। २०७ ।। याच्यमानोऽपि कनकप्रभस्तां न ददौ यदा । तदाच्छिद्यापि चंद्राभां निनाय स्वपुरे मधुः ।। २०८ ।। पपात मूर्छितः पृथ्व्यां विधुरः कनकप्रभः । उत्थाय विललापोच्चैरुन्मत्त इव चाभ्रमत् ।। २०९ ।। व्यवहारे सहामात्यैस्तस्थौ मधुनृपोऽन्यदा । तन्निर्णयमकृत्वापि चंद्राभासदनं ययौ ।। २१० ॥ चिरायितं किमद्येति पृष्टश्चंद्राभया मधुः । पारदारिकवादेऽस्थामहमद्येत्यवोचत ।। २११ ॥ तं स्मित्वोवाच चंद्राभा स पूज्यः पारदारिकः । मधुरुचे कथं पूज्यो निग्राह्याः पारदारिकाः ।। २१२ ।। भूयोऽप्युवाच चंद्राभा यद्येवं न्यायनिष्ठुरः । आत्मानं किं न जानीषे प्रथमं पारदारिकम् ॥२१३ ॥ तच्छुत्वा प्रतिबुद्धः स लज्जितोऽस्थादथाययौ । गायन्नृत्यनाजमार्गे वृतोऽभैः कनकप्रभः ।। २१४ ॥ दध्यौ तं प्रेक्ष्य चंद्राभा मद्वियोगे दशामिमाम् । मत्पतिः प्राप्तवानेष धिग्मां परवशामिमाम् ॥ २१५ ॥ सा विचिंत्येति मधवे तमायांतमदर्शयत् । स्वेन दुष्कर्मणा तेन मधुरप्यन्वतप्यत ।।२१६ ।। मधुधंधुसुतं राज्ये न्यस्य कैटभसंयुतः । व्रतं जग्राह विमलवाहनस्यातिके गुरोः ।। २१७ ॥ १ आदातुमिच्छति । २ बलात् । ३ न्यायकार्ये ।
पूर्वभवः।
॥ २२९॥